Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 217
________________ आर्यासप्तशती । २१३ विधृता । अञ्चलादाविति भावः । यथा विचलसि गच्छसि तथा मे हृदयं विशति । प्रकम्पलक्ष्यं स्पृशन्ती मदनस्य शक्तिरिव । एवं च त्वद्गमने मत्प्राणा एवं नमिष्यन्तीति व्यज्यते ॥ सखी नायिकां वक्ति - विहितमसमशरसमरो जितगाङ्गेयच्छविः कृताटोपः । पुरुषायिते विराजति देहस्तव सखि शिखण्डीव ॥ ५३५ ॥ विहितेति । हे सखि, विहितः कृतः । विशेषेण हित इति वा । असमशर| समरो मदनयुद्धम् । सुरतमिति यावत् । येन । यस्येति वा । अत एव विपरीतरतोद्योगः । पक्षे कृतोऽनुपमबाणैः सङ्ग्रामो येन सः । जिता गाङ्गेयस्य सुवर्णस्य | पक्षे भीष्मस्य । दीप्तिर्येन सः । संपादिताडम्बरः । तव देहो विपरीतरते शिख|ण्डीव विराजति । एवं च त्वया बहुधा विपरीतरतमेव विधेयमिति ध्वन्यते ॥ चौर्यरतादि न सम्यगिति वादिनं कश्चिद्वक्ति 1 वृतिविवर निर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते । अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥ ५३६ ॥ वृतीति । आवरणच्छिद्र निर्गतस्य प्रकृष्टमदशालिन्या बिम्बतुल्याधरस्य मधु पिबते । 'क्रुधदुह -' इत्यादिना चतुर्थी । अवगणितामृत इन्द्रोऽपि स्पृहयति । मद्रूपतावाप्त्यर्थमित्यर्थः । एवं चेन्द्रपदसुखाद्यपेक्षयापि चौर्यरतसुखमधिकमित्याविद्यते ॥ पुरुषविशेषे समासक्तायाः संगतिमपेंक्षमाणं कंचन दूती वक्तिवासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् । I विलसति सा पुरकुसुमे मधुपीव वनप्रसूनेषु ॥ ५३७ ॥ वासितेति । वासितमुत्कृष्टताशालिकृतं मधु येन तस्मिन् । एवं चैतत्समवधाने मद्यस्य मादकत्वमित्यावैद्यते । पक्षे मधुनः सौगन्ध्यार्थं पुष्पादिकं प्रक्षिप्यत इति भावः । नाविकानामवतंसे श्रुतिं भूषणरूपे । एवं च सर्वा अपि कामिन्यस्तदीयगुणश्रवणं सर्वदादरातिशयेन कुर्वन्तीति भावः । तरुणानां मस्तकभूषणरूपे । वन्दनीय त्यर्थः । नगरस्य कुसुमे । सर्वजगत्स्पृहणीयत्वादिति भावः । नायके । विशेषणमहिना विशेष्यामः । सा विलसति शोमते । एवं च त्वं न तस्याः शोभायायक

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284