Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 233
________________ २२९ आर्यासप्तशती। माणे चरणरेणुमार्जनं भवतीति भावः । एवं च कुपिता मत्सखी त्वां ताडयिष्यतीत्यत ईदृशगर्व मा विधेहीति ध्वन्यते ॥ _कथं मयानया सह सबाधकेऽस्मिन्नेव स्थले स्थेयमिति चिन्ताव्याकुलं नायक तत्रैव स्थापयितुं नायिकादूती कयापि भजया वक्ति शाखिशिखरे समीरणदोलायितनीडनिर्वृतं वसति । कर्मैकशरणमगणितभयमशिथिलकेलि खगमिथुनम् ॥ ५७९ ॥ शाखीति । वृक्षशिरसि । शाखिपदं घनतरच्छायावत्त्व ध्वनयति । तथा नेकजनाकीर्णत्वम् । शिखरपदं पतनार्हत्वं गमयति । समीरणचलकुलायसुखितम् । समीरणपदमनिवारणीयतां द्योतयति । दोलायितपदं पतनभीतिमावेदयति । कमैकशरणम् । एवं च दृष्टोपायविचार विधुरत्वं ध्वन्यते । अगणितभयम् । एवं च भयवत्त्वेऽपि तदगणनेनातिसाहसवत्त्वं द्योत्यते । अशिथिलकेलि । एवं च सर्वथा चिन्ताशून्यत्वं व्यज्यते । खगमिथुनम् । खे गच्छतीति व्युत्पत्त्यान्यत्र गमनसामर्थेऽप्यगमनेन निजवसतावतिशयितप्रेमवत्त्वं ध्वन्यते । तेन चापरित्याज्यत्वम् । एवं चान्यत्र गन्तु समर्थः खगोऽपि प्राक्तनकर्मभोगस्यापरिहार्यत्वमाकलय्य खवसति बाधकवन्वेऽप्यपरित्यजन्कीडापरवशतयैव कालमतिवाहयति कथं पुनर्भवान्विवेकवान्महावीरोऽत्रत्यभीत्या स्थलं परित्यक्तुं विचारयतीत्यनुचितं तवेयतः सुखेनानया सहात्र सुरतसुखमनुभवंस्तिष्टेति ध्वन्यते । नायिका नायकचितं व्याक्षिपतीति ऋजवः॥ प्रतिबन्धवशात्संकेतानागमनेन कुपितं खकुटुम्बकान्तिकवर्तिनं नायकमन्योक्त्या खापराधक्षमापनपुरःसरं संकेतं वक्ति शुक सुरतसमरनारद हृदयरहस्सैकसार सर्वज्ञ । गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय ॥ ५८०॥ शुकेति । हे शुक । एवं च वचनरचनानिपुणत्वं ध्वन्यते । सुरतरूपसङ्कामे नारद तद्वर्धक । सङ्ग्रामपदेन निर्दयत्वं द्योत्यते । एवं च कामतत्राभिज्ञत्वमावेद्यते। यद्वात्यन्तरता भलाषित्वमावेद्यते । हृदये । ममेति भावः । यानि गोप्यवस्तूनि तेषु सार मुख्यभूत । एव च त्वदेकतानतापन्नाहमिति व्यज्यते । इदं त्वयापि विज्ञायत एवेत्साह-सर्वज्ञ । एवं च मदीयप्रेमातिशयाज्ञाने सर्वज्ञत्वं व्याहन्येवेति भावः । यद्वा 'सुरतसमरनारदहृदय' इत्येकं पदम् । एवं च सर्वदा सुरतप्रकार

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284