________________
२२९
आर्यासप्तशती। माणे चरणरेणुमार्जनं भवतीति भावः । एवं च कुपिता मत्सखी त्वां ताडयिष्यतीत्यत ईदृशगर्व मा विधेहीति ध्वन्यते ॥ _कथं मयानया सह सबाधकेऽस्मिन्नेव स्थले स्थेयमिति चिन्ताव्याकुलं नायक तत्रैव स्थापयितुं नायिकादूती कयापि भजया वक्ति
शाखिशिखरे समीरणदोलायितनीडनिर्वृतं वसति ।
कर्मैकशरणमगणितभयमशिथिलकेलि खगमिथुनम् ॥ ५७९ ॥ शाखीति । वृक्षशिरसि । शाखिपदं घनतरच्छायावत्त्व ध्वनयति । तथा नेकजनाकीर्णत्वम् । शिखरपदं पतनार्हत्वं गमयति । समीरणचलकुलायसुखितम् । समीरणपदमनिवारणीयतां द्योतयति । दोलायितपदं पतनभीतिमावेदयति । कमैकशरणम् । एवं च दृष्टोपायविचार विधुरत्वं ध्वन्यते । अगणितभयम् । एवं च भयवत्त्वेऽपि तदगणनेनातिसाहसवत्त्वं द्योत्यते । अशिथिलकेलि । एवं च सर्वथा चिन्ताशून्यत्वं व्यज्यते । खगमिथुनम् । खे गच्छतीति व्युत्पत्त्यान्यत्र गमनसामर्थेऽप्यगमनेन निजवसतावतिशयितप्रेमवत्त्वं ध्वन्यते । तेन चापरित्याज्यत्वम् । एवं चान्यत्र गन्तु समर्थः खगोऽपि प्राक्तनकर्मभोगस्यापरिहार्यत्वमाकलय्य खवसति बाधकवन्वेऽप्यपरित्यजन्कीडापरवशतयैव कालमतिवाहयति कथं पुनर्भवान्विवेकवान्महावीरोऽत्रत्यभीत्या स्थलं परित्यक्तुं विचारयतीत्यनुचितं तवेयतः सुखेनानया सहात्र सुरतसुखमनुभवंस्तिष्टेति ध्वन्यते । नायिका नायकचितं व्याक्षिपतीति ऋजवः॥
प्रतिबन्धवशात्संकेतानागमनेन कुपितं खकुटुम्बकान्तिकवर्तिनं नायकमन्योक्त्या खापराधक्षमापनपुरःसरं संकेतं वक्ति
शुक सुरतसमरनारद हृदयरहस्सैकसार सर्वज्ञ ।
गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय ॥ ५८०॥ शुकेति । हे शुक । एवं च वचनरचनानिपुणत्वं ध्वन्यते । सुरतरूपसङ्कामे नारद तद्वर्धक । सङ्ग्रामपदेन निर्दयत्वं द्योत्यते । एवं च कामतत्राभिज्ञत्वमावेद्यते। यद्वात्यन्तरता भलाषित्वमावेद्यते । हृदये । ममेति भावः । यानि गोप्यवस्तूनि तेषु सार मुख्यभूत । एव च त्वदेकतानतापन्नाहमिति व्यज्यते । इदं त्वयापि विज्ञायत एवेत्साह-सर्वज्ञ । एवं च मदीयप्रेमातिशयाज्ञाने सर्वज्ञत्वं व्याहन्येवेति भावः । यद्वा 'सुरतसमरनारदहृदय' इत्येकं पदम् । एवं च सर्वदा सुरतप्रकार