________________
२३०
काव्यमाला।
चिन्तनकारित्वमावेद्यते । अथवा नारदपदस्य शरीरावच्छिनात्मनि शक्त्या कदाचिच्छरीरस्य तूष्णींभावभवनार्हतया हृदयस्य तु तदभाववत्तयाविशयितसुरतसामर्थ्यवत्वमावेद्यते । रहस्यरूपः सन् मुख्यसाररूप । एवं च त्वदतिरिकं ममान्यन रहस्यमिति भावः । यद्वा सर्वज्ञान्तमेकं पदम् । तथा च हृद्गतरहस्यजातप्रधानभूतस्या-1 तिगोप्यत्वेऽपि तव तज्ज्ञानवत्त्वे संकेतस्थलं प्रति मदनागमनहेतुभूतश्वश्वादिनिभर्त्सननिवारणरूपस्य ज्ञानवत्त्वं सुकरमिति ध्वन्यते । गुरुजनसमक्षे मूक । एवं च सर्वदा संनिहितत्वेऽपि श्लेषकावादिनापि श्वशुरादिसंनिधौ वातावकरणेन धैर्यवत्त्वमावेद्यते । यद्वा गुरुजडः । रहस्यकारणानभिज्ञ इति यावत् । यो जनः। अर्थात्वीयो मदीयो वा । तत्समक्षमूक । एवं च खीयत्वेऽपि रहस्यकथनान:ताविचारकारितयातिशयितविवेकित्वमावेद्यते । प्रसीद । जम्बूफलं दलय । एवं च प्राक्तनमदीयसंकेतभङ्गापराधमवगणय्येदानी जम्बूवक्षाधस्त्वया स्थयम्, मयाप्यागम्यत एव झटिति तत्रेति ध्वन्यते। एवं च फलमित्येकवचनं सहृदयम् । यद्वा संकेतगमनजनितविलम्बवशात्समये भक्ष्याप्राप्त्या क्षुधितं शुकमवलोक्य ममाविनयमयं गुरुजनाय निवेदयिष्यतीति मीता नायिका तं प्रसादयितुं वक्ति-शुकेति । कीरपदं विहाय शुकपदोपादानेन व्यासात्मजशुकाभेदबोधनेन क्रोधाभावौचित्यमावेद्यते। सुरतसङ्ग्रामनारद । एवं च यथा तव सुरतसङ्ग्राम एव प्रियो न तथा भोजनमिति ज्ञानवशान्मया गतमिति भावः । एवं च त्वदीयवचनरूपोद्दीपनवशादेव मया संकेते गतम् , अतो नायं ममापराध इति व्यज्यते। यद्वा त्वदीयप्रियसंपादनाय गतायां मयि क्रोधकरणमनुचितं तवेति व्यज्यते । एवं च नारदर्घ्यमेदप्रतिपादनेनापि कोपकरणानौचित्यं ध्वन्यते । हृदयरहस्यैकसारसर्वज्ञ । एवं च मदीयमनोजपीडाज्ञानवत्त्वेऽपि तत्प्रतीकाराय गतायां मयि कोपकरणं तव कथं नामौचितीमावहतीति भावः । सर्वज्ञपदेन बुद्धाभेदप्रतिपादनेन हिंसामात्रस्याधर्मसाधनत्वसमर्थनप्रवणस्य तव कोपकरणेन मन्मरणमेव भविष्यतीत्यतस्तदकरणमेव तवोचितमित्यावेद्यते। यद्वा सर्वज्ञपदेन परमेश्वरामेदप्रतिपादनेन मम त्वदतिरिक्त नान्यदुपास्यमस्तीति ध्वन्यते । तेन च मत्कृतापराधक्षमाईत्वम् । यद्वान्तर्यामित्वेन मदीयमन्मथवेदनाज्ञानवत्त्वं तवेति द्योत्सते । गुरुजनसमक्षमूकेत्यनेन गुरुजनसमक्षं पचनसामान्याभाववत्तया मत्कृतापराधकथनस्यासंभाव्यतया कोपफलाकरणेन निरर्थकतत्करणमनुचितमिति ध्वन्यते । अतः प्रसीद जम्बूफलं दलय । एवं च न केवलं मया खार्थ एव कृतः, परं त्वदर्थोऽपि संपादित इति व्यज्यते ॥