________________
आर्यासप्तशती।
बहुतरपरिप्रहाभावेऽप्यतितृष्णाशालिनं कंचन कश्चिदन्योक्त्या वक्ति
शिरसा वहसि कपद रुद्र रुदित्वापि रजतमर्जयसि ।
अस्पाप्युदरस्याचं भजतस्तव वेत्ति कस्तत्त्वम् ॥ ५८१॥ शिरसेति । हे रुद्र, शिरसा कपर्द जटाजूटमथ च वराटिकां वहसि । रोदनं कृत्वापि रजतमर्जयसि । 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' इत्याद्यर्थवादादरोदनाद्रजतोत्पत्तिरिति । यद्यपि 'असो वामं वसु च संदधत' इत्यनिरोदनाद्रजतोत्पत्तिस्तथाप्यष्टमूर्तितयामिरूपो रुद्र इत्यर्थः । अस्य । एवं चापलापानर्हत्वं ध्वन्यते। उदरस्यार्ध समांशकम् । 'अर्ध समेंऽशके' इत्यमरः । एवं च विभागकाले किंचिदधिकाग्रहणेनातिकृपणत्वं ध्वन्यते । भजतोऽपि तत्त्वं को वेत्ति । न कोऽपीत्यर्थः । एवं च परिग्रहभावेऽतिदैन्यादिना द्रव्यार्जनकरणमनुचितमिति व्यज्यते ॥ कश्चित्कांचित्मामान्यवनितामन्योक्त्या वक्ति
श्रोतव्यैव सुधेव श्वेतांशुकलेव दूरदृश्यैव ।
दुष्टभुजंगपरीते त्वं केतकि न खलु नः स्पृश्या ॥ ५८२ ॥ श्रोतव्यैवेति । हे केतकि, दुष्टसर्पव्याप्ते, नोऽस्माकं त्वं निश्चयेन स्पृश्या न। किं तु सुधेव श्रोतव्यैव । न तु ग्रहीतुं शक्येत्यर्थः । तत्रापि भुजंगसंरक्षणस्य मत्त्वादिति भावः । सुगाश्वेतांशुकलयोः केतक्युपमानत्वे गौरत्वं समानो धर्मः । एवं च सर्वथा स्पृहणीयत्वेऽपि विटनैकट्येन दुर्घटा त्वत्संगतिरस्माकमिति व्यज्यते। यद्वा सुधैव श्रोतव्यैवेति काका नेत्यर्थः । किं तु दृश्यादृश्यत्वेऽपि चन्द्ररेखेव दूरहश्यैवेति काका नेत्यर्थः । कि तु निकटदृश्या। एवं चेन कुतः संगति संपादयसीत्यवाह-दुष्टसपेव्याप्ते केतकि, त्वं नो न स्पृश्या । एवं च जीवनदाननिदानतापापनोदनखरूपायास्तव नैकव्येऽपि खिड्गभिया नास्माकमागमनं भवतीति व्यज्यते ॥ नायको नायिकादूतीं वति
श्रवणोपनीतगुणया समर्पयन्त्या प्रणम्य कुसुमानि ।
मदनधनुर्लतयेव त्वया वशं दूति नीतोऽसि ॥ ५.३ ।। श्रवणेति । गुणः सौन्दर्यादिः । अर्थान्नायिकायाः । ज्या च । नमस्कृत्य । नमनं प्राप्य च । पुष्पाणि । अर्थान्नायिकाप्रेषितानीति भावः । मदनबाणानां पुष्पमयत्वाच्च । समर्पयन्त्या मदनधनुर्लतयेव हे दूनि, त्वया खाधीनतां प्रापितोऽस्मि । एवं च मयावश्यमागम्यत एवेति व्यज्यते ॥