________________
३३२
काव्यमाला। कश्चित्कंचिदन्योक्त्या वक्ति
शाखोटकशाखोटजवैखानसकरटपूज्य रट सुचिरम् ।
नादरपदमिह गणकाः प्रमाणपुरुषो भवानेकः ॥ ५८१ ॥ शाखोटकेति । शाखोटकस्य वृक्षविशेषस्य शाखायामुटजं पर्णशाला तत्सं-1 बन्धिनो ये मुनयः काकास्तेषु पूज्य । काकश्रेष्ठति यावत् । यद्वा संबुद्धित्रयम् । चिरकालं रट । यत इह दैवज्ञा आदरस्थानं न । भवानेव प्रमाणपुरुषः । शुभाशुभनिर्णयार्थमिति भावः । एवं च त्वादृशमूर्खाधिष्ठितैतादृशस्थले नामादृशां विदुषां वचसामवकाश इति ध्वन्यते ॥ कस्यचिडूती कांचिद्वक्ति
शशिरेखोपमकान्तेस्तवान्यपाणिग्रहं प्रयातायाः ।
मदनासिपुत्रिकाया इवाङ्गशोभां कदर्थयति ॥ ५८५ ॥ शशीति । चन्द्रकलोपमेयशोभायाः । यद्वा चन्द्राङ्गश्रीसदृशशोभायाः । एवं च निष्कलङ्कतया तदुपमानत्वं युक्तमित्यावेद्यते । 'अङ्गश्रीः कथ्यते रेखा' इत्यभिधानात् । अन्यस्य पाणिग्रहं प्राप्तायास्तव मदनच्छुरिकाया इवावयवशोभां कदर्थयति कदर्थयिष्यति । अन्यो नायक इति शेषः । एवं च मदुक्तनायकस्यैव बया संगतिः कर्तव्या नान्यस्येति व्यज्यते । तेन च तस्मिन्सौन्दर्यातिशयः। वक्रापि च्छुरिका भवतीति चन्द्ररेखोपमानता । द्वितीयव्याख्यायां न कश्चिद्दोषः ॥ समीचीनवृत्तरेव खामिकार्यार्थमाग्रहः क्रियते नान्यैरिति कश्चित्कंचिदत्ति
शैथिल्येन भृता अपि भर्तुः कार्य त्यजन्ति न सुवृत्ताः ।
बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥ ५८६॥ शैथिल्येनेति । मान्द्यव्याप्ता अपि। अथ च श्लथत्ववन्तोऽपि । समीचीनत्तशालिनः । अथ च वर्तुलाः। पोषकस्य । अथ च धारकस्य । कृत्यं न त्यजन्ति। अर्थान्तरन्यासमाह-बलवता । एवं च निवारणानहत्वं ध्वन्यते। हस्त आकृष्टे कङ्कणानि धावन्ति शब्दं कुर्वन्ति च । एवं च सुवृत्तत्वादचेतना वलया अप्येवमाचरन्ति तत्र का वार्ता सचेतसामिति भावः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता शकारव्रज्या।