________________
आर्यासप्तशती ।
षकारव्रज्या ।
२३३
नायको नायिकां वक्ति
षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा । त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति ॥ ५८७ ॥ षट्चरणेति । भ्रमररूपकीटसेवितम् । मदनधनुर्मौर्व्या मधुकररूपत्वादिति भावः । परागः पुष्परजस्तद्रूपकाष्ठचूर्णपूर्णम् । मदनधनुषः पुष्परूपत्वादिति भावः । आयुधम् । शरासनमित्यर्थः । त्यक्त्वा । स्मरोऽधुना मुष्टिना मेयो मध्यो यस्यास्ताम् । कृशत्वादिति भावः । त्वां शक्तिं त्वद्रूपां शक्तिं वहति । एवं च त्वामासाद्याधुना मदनवीरोऽतिप्रबलः संवृत्त इति ध्वन्यते । 'वस्तु' इति पाठे जातयौवनां त्वामासाद्य कंदर्प इदानीं जगज्जयं करिष्यतीति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता षकारव्रज्या ।
सकारव्रज्या ।
सपत्नीदुःखदुःखितां नायिकां नायकसखी वक्ति—
सा दिवसयोग्यकृत्यव्यपदेशा केवलं गृहिणी । द्वितिथेर्दिवसस्य परा तिथिरिव सेव्या निशि त्वमसि ॥ ५८८ ॥ सेति । सा नायिका दिनयोग्यकार्यकरणात्तस्य केवलं गृहिणी । तिथिद्वयवत दिवसस्य संबन्धिनीं द्वितीयतिथिरिव रात्रौ त्वं सेव्यासि । गृहकार्यार्थमेव केवलं सा, त्वं तु सुरतसुखार्थमिति भावः । एवं च तस्यामीर्ष्या न विधेयेति ध्वन्यते ॥ सखी नायिकां वक्ति
स्तननूतननखलेखालम्बी तव धर्म बिन्दुसंदोहः ।
आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥ ५८९ ॥
स्तनेति । त्वदीयस्तनसंबन्धितात्कालिकनखरेखालम्बी खेदबिन्दुसमूहः पट्टसूत्रे प्रविशन्मौक्तिकप्रकृष्टसर इव शोभते । नूतनपदेन नखरेखायामारतत्वं ध्वन्यते । एवं चेदानींतनसुरतेन तवातिशयशालिशोभा संवृत्तेति ध्वन्यते । एवं चैतादृश• प्रत्यक्षरतचिह्नदर्शनेऽपि न मया किंचित्कृतमिति वदसीत्यतस्त्व तुल्या नान्या प्रता-रिकेति ध्वन्यते ॥