________________
२३४
काव्यमाला।
सखी सामान्यवनितामुपदिशति
सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी ।
अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥ ५९० ॥ सौभाग्येति । यूथस्य करिसमूहस्य भूषणं करिणी एका सौभाग्यस्य गर्व । करोतु । अत्युच्चयोर्मदशालिनोर्या मध्यमधिवसति । एवं च सर्वनायकसमाधान त्वया विधेयमिति ध्वन्यते ॥
पतिमवमत्य तत्सखीवचनादिकमप्युपेक्ष्य पश्चात्परितप्ता सती स्वयमेव प्रियसविधमागता सखीपरिवृतं तमालोक्य तासु स्खलघुतागोपनाय नायिका नायकं वकि
खचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या ।
अपराधा सुभग त्वां खयमहमनुनेतुमायाता ॥ ५९ ॥ खचरणेति । खचरणपीडयानुमिता या त्वन्मस्तकपीडा तया विशेषेणापह. तमात्सर्या । खयं कृतापराधा । पतिविहितप्रणतावपि कोपकरणादिति भावः। सुभग । विना प्रयत्नं मदागमनादिति भावः । त्वामनुनेतुमहमायाता । एवं चानेन प्रियतमेन बहुतरप्रणामादिना मदनुनयः कृतोऽस्तीति व्यज्यते । यद्वा खयमेवोत्कण्ठिता नायिका नायकसविध आगता, तत्र च तत्संख्यादिकमवलोक्यानाकारितागमनसंभाव्यमानलाघवपरिहाराय मृषैव वक्ति-खचरणेति ॥
अनुरक्तजनक्लेशकर्तुः सेना देकं न सम्यक् , किंतु प्रबलविपक्षविद्रावकस्येति कश्चिद्वक्ति
स्नेहमयान्पीडयतः किं चक्रेणापि तैलकारस्य ।
चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥ ५९२ ॥ नेहमयानिति । तैलप्रचुरान् । अथ च प्रीतिप्रचुरान् । पीडयतस्तैलकारस्य चक्रेणापि यत्रविशेषेणापि । अथ च सेनयापि 'शस्त्रभेदे च सेनायां चक्रम्' इत्यभिधानात् । अपिना कोषादिसंग्रहः । यः पार्थिवान्पृथिवीविकारान्घटादीन् । अथ च महीपतीन् । चालयति भ्रामयति । अथ च खस्थानभ्रष्टान्करोति । स कुलालोऽपि । अपिना निन्द्यत्वमावेद्यते । परमुत्कृष्टं चक्रवान्य त्रविशेषवान् । अथ च सेनावान् । यद्वा यथास्थित एवापिः । एवं च सामर्थ्य विशेषवत्त्वमावेद्यते । एवं च सेनादिसत्वमात्रेण न प्रतिष्ठा, किं तु खानुरक्तसंरक्षणपरविदावणरूपकार्यकारितयेति व्यज्यते ॥