________________
आर्यासप्तशती ।
सखी नायिकां वक्ति —
सरले न वेद भवती बहुभङ्गा बहुरसा बहुविवर्ता । गतिरसतीनेत्राणां प्रेम्णां स्रोतखतीनां च ॥ ५९३ ॥
२३५
सरल इति । हे सरले, बहुभङ्गा भङ्गो वक्रता विच्छेदस्तरङ्गश्च । बहुरसा बहुविषयकप्रेमवती । यद्वा शृङ्गारादिमती । बहुहर्षवती बहुजलवती च । बहुविवर्ता बहुकापट्यवती अनेकप्रकारवती बहुजलभ्रमणवती च । असतीनयनानां प्रेम्णां नदीनां च गतिः कटाक्षादिः स्थितिर्गमनं चेति भवती न वेद । एवं च प्रेम्णि भङ्गादिकं नियतमस्तीत्यत एतत्संरक्षणं दुष्करम्, अतोऽत्यन्ताभिमानं परित्यज्य नायकसमाधानं कुर्विति ध्वन्यते ॥
नायिका सखीं वक्ति
सखि मध्याह्नद्विगुणद्युमणिकर श्रेणिपीडिता छाया । मज्जितुमिवालवाले परितस्तरुमूलमाश्रयति ॥ ५९४ ॥
सखीति । हे सखि । एवं च रहस्यकथनार्हत्वं व्यज्यते । मध्याह्वे द्विगुणीभूता या सूर्यकिरण श्रेणिस्तया पीडिता छाया आलवाले मज्तुिमिव समन्ताद्वृक्षमूलमाश्रयति । एवं चैतादृशनिदाघकाले न कोऽपि खगेहाद्गच्छतीत्युपवने नायकं नय, अहमप्यधुना तत्रागतप्रायेति ध्वन्यते । यद्वा सखी नायिकां वक्ति । एवं च यत्र अखररविकरनिकरखिन्ना प्राणानपि त्यक्तुकामा जटापि छायां स्वाश्रयं न परित्यजति, तत्र किमु वाच्यं त्वया पतिपदारविन्दं विहाय क्षणमपि खेदवत्त्वेऽपि दूरे स्थेयमिति द्योत्यते ॥
'मत्प्रियो मय्यविशयितानुरागवान्' इति वादिनीं कांचित्काचिद्वक्तिसखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः । तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥ ५९५ ॥
सखीति । हे सखि, श्रृणु । श्रण्वित्यनेन त्वदुतिरकिंचित्करेति ध्वन्यते । अयं मम प्रियः । परोक्षेऽप्यपरोक्षवन्निर्देशो नायके निरन्तरसंगतिशालित्वमावेदयति । गृहं येनैव मार्गेणागतस्तत्संबन्धिनगर ग्रामनदीः खसहागतानन्यान्पृच्छति । एवकारेणादृष्टमार्गीयनगरादिप्रश्नकरणमुचितमिति ध्वन्यते । एवं च मन्नायको