________________
૨૨૮
काव्यमाला।
एवं च तदीयतत्कालीनतादृशावस्थास्मरणेन न मयात्र स्थातुं शक्यमिति नायकः सखायं वति॥
नायिकायास्तावदनुनयेऽपि समधिकतरमानभवनमवलोक्याभिमानितयोदासीनं नायकमवलोक्य प्रशिथिलमानां कया रीत्यानुनेतव्योऽयमिति विचारयन्ती नायिकां । सखी वक्ति
श्रुतपरपुष्टरवाभिः पृष्टो गोपीमिरमिमतं कृष्णः।
शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥५७७॥ श्रुतेति । श्रुतकोकिलरुताभिर्गोपीभिरीप्सितं पृष्टः कृष्णो वंशीरवैः कुचविनिहितनयनः खाभिमतम् । आलिङ्गनरूपमिति भावः । कथयति । गोपीपदमज्ञत्वं ध्वनयति कृष्णपदं कर्षति चित्तमिति व्युत्पत्त्या खचित्तस्य पराधीनताभावकर्तृत्वमावेदयति । एवं च चातुर्याभाववत्यो गोपाङ्गना अप्यनासक्तं परमेश्वरमेवंरीत्या खय- ! मेव खवशतां नयन्तीति भावः । एवं चैतादृशवसन्तसमये चतुरया त्वया विषयरसलम्पटो नायकः कयाचन रीत्या कथं न खाधीनतां नेतुं शक्य इति व्यज्यते। कोकिलायाः प्रथमं रखश्रवणे मित्रस्य यदभीष्टं तत्पृष्ट्वा प्रदेयमेवेति लौकिकम् । यद्धा वसन्तसमये परदेशगमनमनुचितमिति कश्चित्कंचिद्वक्ति-परपुष्टा इव परपुष्टा दूतीसदृशाः कोकिला इत्यर्थः । तच्छन्दश्रवणाद्गोपीभिरविदग्धाभिरभिमतम् । खस्येति भावः । कृष्णः । एवं च मलिनत्वं ध्वन्यते । पृष्टः स च वंशीरवः । एवं च गोपनमभिव्यज्यते । तेन च पुरुषे धैर्यमङ्गनाखधैर्यमिति । कुचदत्तनेत्रोऽनुमतं पृष्टेऽर्थे संमतं वक्ति । एवं च वसन्ते मौन्यशालिन्योऽप्यजनाः प्रमत्ततया समीचीनपुरुषविवेकमपास्यान्यथाचरणप्रवणा भवन्ति, किं पुनः सकलविज्ञा इति भावः ॥
नायकप्रेमातिशयशालिन्यहमित्यभिमानशालिनी नायिकामन्योक्त्या परनायिकासखी पति
शंकरशिरसि निवेशितपदेति मा गर्वमुदहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ५७८ ॥ शंकरेति । हे इन्दुकले, शंभुशिरसि स्थापितचरणेति हेतोरभिमानं मा उद्वह । किमितीत्यत आह-तवैतस्य । गर्वस्येत्यर्थः । चण्डीचरणधूलिभिर्मार्जनरूपं फलं भविष्यति । एवं च चण्डी मानवतीमालोक्य शंकरेण चरणप्रणामे किय