________________
आर्यासप्तशती।
२२७.
एवं च धनवसास्तव न किमप्ययशः संभवीत्यतो मदुक्तनायकेन संगतिं कुरुष्वेति ध्वन्यते ॥ पूर्वनायिकासखी नायकं वक्ति
श्यामा विलोचनहरी बालेयं मनसि हन्त सज्जन्ती।
लुम्पति पूर्वकलत्रं धूमलता भित्तिचित्रमिव ॥ ५७५ ॥ श्यामेति । श्यामा षोडशवार्षिकी । पक्षे श्यामरूपा । विलोचनहरी लोचनयोः खस्मिनासक्तिसंपादिका । तारुण्यवत्त्वादिति भावः । एवं चैतस्यास्तारुण्यवशादेव सौन्दर्य न खाभाविकमिति व्यज्यते । पक्षेऽश्रुसंपादकतया नेत्रहरत्वम् । मनसि लमा । अत्र तवेति पदानुपादानं सखीगतदुःखोद्रेकं व्यञ्जयति । इयं बाला । धूमपरम्परा । लतापदं मालिन्यातिशयजनकतामावेदयति । मित्तिस्थचित्रमिव पूर्वकलत्रं लुम्पति । हन्तेति खेदे । एवं चैतादृशानुचितमन्यत्रेति भावः । पूर्वकलत्रस्य चत्रोपमानतया खाभाविकसौन्दर्यवत्त्वं बहुभाषित्वाभावश्च द्योत्यते । बालायाश्च चूमलतोपमानतया मालिन्यसंपादकताप्रदर्शनेनासतीकार्यकरणत्वमावेद्यते । आर्थिकमित्त्युपमानतया मनसिजदुःखं ध्वन्यते । तेन वास्तवसमीचीनज्ञानविधुरत्वम् । लुम्पतीत्यत्र काका सखीप्रश्न इत्यपि भाति । अथवा काक्का न लुम्पतीत्यर्थः । पूर्वकलत्रस्नेहस्यातिदृढत्वादिति भावः ॥ प्रस्थितस्त्वं किमिति स्थितोऽसीति पृष्टः कश्चित्सखायं वक्ति
शतशो गतिरावृत्तिः शतशः कण्ठावलम्बनं शतशः ।
शतशो यामीति वचः स्मरामि तस्याः प्रवासदिने ॥ ५७६ ॥ शतश इति । अनेकवारं गमनमनेकवार परावृत्तिश्च । सर्वथा गमने नायिका मद्विरहदहनदग्धा सती प्राणानेव त्यक्ष्यतीति धियेति भावः । अत एव वारंवारं गाढालिङ्गनम् । अचिरेणैवागमिष्यामि दुःखं मा कुरुष्वेत्यनुनयार्थमिति भावः । तथानेकवारं गच्छामीति वचनम् । त्वदाज्ञा चेद्गच्छामि, नो चेन गच्छामीत्येवंविधम् । एवं च नायके नायिकाज्ञावशवर्तित्व तेन चात्यन्तासक्तिमत्त्वं तेन च प्रणयभगमीरुत्वमावेद्यते। प्रस्थानकाले इदं सर्व तस्याः । तां प्रति खकृतमित्यर्थः । मरामि । एवं च तत्कालीनावस्थास्मरणसंजातवैकल्यविवशहृदयोऽहं गन्तुं न शक्कोमीति भावः । यद्वा प्रवासदिवसे तस्या नायिकाया अनेकगमनादिकं स्मरामि ।