________________
२२६
काव्यमाला।
मनसि न विधेयं त्वयेति ध्वन्यते । तेन च किंचित्कालं त्वया परित्यक्ता सा खयमेव वामनुनेष्यतीति ॥ कश्चित्सखायं वकि
शुक इव दारुशलाकापिञ्जरमनुदिवसवर्धमानो मे ।
कृन्तति दयिताहृदयं शोकः स्मरविशिखतीक्ष्णमुखः ॥५७२॥ शुक इति । प्रतिदिवसं वृद्धिमान् , कंदर्पबाणनिशितः । दुःखद इति यावत् । मुखमारम्भो यस्य सः। पक्षे मदनविशिखीभूतकिंशुकवत्तीक्ष्णवदनः । मे शोकः प्रियतमाहृदयं काष्ठशलाकापिञ्जरं शुक इव । दारुपदेन च्छेदनाहत्वं द्योत्सवे । छेदयति । एवं च न मया परदेशे स्पेयमिति ध्वन्यते ॥ काचित्रांचिद्वक्ति
श्रुत्वाकमिकमरणं शुकसूनोः सकलकौतुकैकनिघेः।
ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन ॥ ५७३ ॥ श्रुत्वेति । पथिकेन निखिलकौतुकस्थानस्य शुकरूपो यः सूनुस्तस्य । एवं चातिस्नेहपात्रत्वं द्योत्यते। तेन च मारणानहत्वम् । तत्वेऽपि तत्करणेऽत्यन्तानुचितकार्यकर्तृत्वं नायिकायामभिव्यज्यते । आकस्मिकं यन्मरणम् । एवं च रोगाद्यनुत्पत्त्यानया मारित इति ध्वन्यते । श्रुत्वा । गृहिण्याः । एवं चान्यानिवारणीयत्वारक्षणीयत्वादि व्यज्यते । विनयनाशः । अकार्यकरणमित्यर्थः । आगमनोत्तरमेव । एवकारेण दास्याद्यकथितत्वं विनयव्यये व्यज्यते । ज्ञातः । एवं च किमकार्य प्रमदानामिति ध्वन्यते । केचित्तु शुकसूनुरित्यस्य शुकबालक इत्यर्थमाहुः ॥ दूती नायिका वक्ति
शीलितभुजंगभोगा कोडेनाभ्युद्धृतापि कृष्णेन ।
अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥ ५७१ ॥ शीलितेति । अङ्गीकृतसर्पशरीरा। आधारतयेति भावः । अथ च कृतखिनसंभोगम । कृष्णेन परमेश्वरेण कोडेन वराहरूपेण निष्कासितापि। अथ च दुष्टेन भुजाभ्यन्तरेणालिङ्गितापि । भूः पृथ्वी । अथ च भवन्त्यपराधा बहवो यस्याः सकाशात्सा। अचलैव। अथ च चाञ्चल्याभाववत्येव कीर्त्यते । अत्र हेतुमाह-नामेति निश्चयेन । वसुमत्याः । अथ च संपत्तिशालिन्याः। किमशक्यम् । न किमपीत्यर्थः।