________________
आर्यासप्तशती।
२२५
कुपिता नायिका नायकसखी वकि
शिरसि चरणप्रहारं प्रदाय निःसार्यतां सते तदपि । .
चक्राङ्कितो भुजंगः कालिय इव सुमुखि कालिन्द्याः ॥५७० ॥ शिरसीति । हे सुमुखि । एवं च परुषभाषित्वाभावो व्यज्यते । मस्तके गदप्रहारं दत्त्वा त्वया दूरीक्रियताम् । कालिन्याः कालिय इव । तथापि चकेण बच्चरणसंबन्धिनेत्यर्थः । चिहितः । पक्षे सुदर्शनचक्रेणाङ्कितः । यमुनातो निःसार्य आगरावस्थितौ गरुडभयनिवारणार्थ कालियस्य चक्रचिहं कृतमिति पौराणिकाः । स मुजंगः खितः । पक्षे सर्पः । ते । तवैवेत्यर्थः । एवं च त्वया कोपे कृतेऽपि स न कुपितो भवतीति व्यज्यते । यद्वा सखी नायिकामुपदिशति । हे सुमुखि । एवं बोपदेशार्हत्वमावेद्यते । यद्यपि चक्रेण जनसंरक्षणेन चिहितः । 'जनावने समूहे व दम्मे मेदरथाङ्गयोः । शस्त्रभेदे च सेनायां चक्रं चापि विहंगके ॥' इत्यभिधासाद । खिड्गस्तथापि त्वया शिरसि पादप्रहारं दत्त्वा सते सदयं निःसार्यताम् । एवं च यद्यप्यनेन बहु दीयते तथाप्यपकीर्तिर्भूयसी भवतीत्यतस्त्वं सामीचीन्यामेनं सनिकारं दूरीकुरुष्वेति भावः ॥ नायिकासखी नायकं वक्ति
शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि ।
स्नेहैकवश्य भवता त्यक्ता दीपेन वर्तिरिव ॥ ५७१॥ शोच्यैवेति । हे स्नेहेन प्रीत्या न तु गुणैर्मुख्यवश्य । एवं च बहुतरतदीयपुणेषु दृष्टिमदत्त्वा स्नेहमात्रमपेक्षस इत्यनुचितं तवेति ध्वन्यते । पक्षे तैलेन । दीपेन तिरिव त्वया परित्यका सा कृशाङ्गी । एवं च सौन्दर्यवत्त्वमावेद्यते । कृशाङ्गीति र्तिविशेषणमपि । भूतिरैश्वर्यम् । पक्षे भस्म । तत्प्रचुरा। गुणाः सौन्दर्यादयः । क्षे तन्तवः। तत्प्रचुरा वा भवतु। परं तु शोच्यैव। एवं च त्वया तस्यां परित्यक्तागमैश्वर्य गुणादिकं च तस्याः सर्वमकिंचित्करमेवेति व्यज्यते । तेन च तदीयगुणादेमात्रमवेक्ष्य त्वया तदीयानुरञ्जनं विधेयमिति । यद्वैश्वर्यगुणाद्युत्कर्षवशानायक त्यप्रीतिकारिणी नायिकामालोक्य नायकसखी नायकं वक्ति-हे मेहैकवश्य । एवं व तव नान्यापेक्षेति व्यज्यते । भवता परित्यक्ता सा ऐश्वर्यसौन्दर्ययुक्कापि शोच्यैव । एवं च तस्याः संपत्तिसौन्दर्यादिमत्तया मत्परित्यागेऽपि न किंचिदुःखं भविष्यतीति
१५ आ० स०