________________
आर्यासप्तशती ।
२१३
विधृता । अञ्चलादाविति भावः । यथा विचलसि गच्छसि तथा मे हृदयं विशति । प्रकम्पलक्ष्यं स्पृशन्ती मदनस्य शक्तिरिव । एवं च त्वद्गमने मत्प्राणा एवं नमिष्यन्तीति व्यज्यते ॥
सखी नायिकां वक्ति -
विहितमसमशरसमरो जितगाङ्गेयच्छविः कृताटोपः । पुरुषायिते विराजति देहस्तव सखि शिखण्डीव ॥ ५३५ ॥
विहितेति । हे सखि, विहितः कृतः । विशेषेण हित इति वा । असमशर| समरो मदनयुद्धम् । सुरतमिति यावत् । येन । यस्येति वा । अत एव विपरीतरतोद्योगः । पक्षे कृतोऽनुपमबाणैः सङ्ग्रामो येन सः । जिता गाङ्गेयस्य सुवर्णस्य | पक्षे भीष्मस्य । दीप्तिर्येन सः । संपादिताडम्बरः । तव देहो विपरीतरते शिख|ण्डीव विराजति । एवं च त्वया बहुधा विपरीतरतमेव विधेयमिति ध्वन्यते ॥ चौर्यरतादि न सम्यगिति वादिनं कश्चिद्वक्ति
1
वृतिविवर निर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते । अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥ ५३६ ॥
वृतीति । आवरणच्छिद्र निर्गतस्य प्रकृष्टमदशालिन्या बिम्बतुल्याधरस्य मधु पिबते । 'क्रुधदुह -' इत्यादिना चतुर्थी । अवगणितामृत इन्द्रोऽपि स्पृहयति । मद्रूपतावाप्त्यर्थमित्यर्थः । एवं चेन्द्रपदसुखाद्यपेक्षयापि चौर्यरतसुखमधिकमित्याविद्यते ॥
पुरुषविशेषे समासक्तायाः संगतिमपेंक्षमाणं कंचन दूती वक्तिवासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् ।
I
विलसति सा पुरकुसुमे मधुपीव वनप्रसूनेषु ॥ ५३७ ॥ वासितेति । वासितमुत्कृष्टताशालिकृतं मधु येन तस्मिन् । एवं चैतत्समवधाने मद्यस्य मादकत्वमित्यावैद्यते । पक्षे मधुनः सौगन्ध्यार्थं पुष्पादिकं प्रक्षिप्यत इति भावः । नाविकानामवतंसे श्रुतिं भूषणरूपे । एवं च सर्वा अपि कामिन्यस्तदीयगुणश्रवणं सर्वदादरातिशयेन कुर्वन्तीति भावः । तरुणानां मस्तकभूषणरूपे । वन्दनीय त्यर्थः । नगरस्य कुसुमे । सर्वजगत्स्पृहणीयत्वादिति भावः । नायके । विशेषणमहिना विशेष्यामः । सा विलसति शोमते । एवं च त्वं न तस्याः शोभायायक