________________
२१५
काव्यमाल। , इति भावः । वनकुसुमे मधुपीव । एवं चैतादृशनायकविशेष समासता न कथमपि त्वयि संयोजयितुं शक्येति भावः ॥ नायिकासखी नायकं वजि
व्रीडाप्रसरः प्रथमं तदनु च रसमावपुष्टचेष्टेयम् ।
जवनीविनिर्गमादनु नटीव दयिता मनो हरति ॥ ५३८ ॥ वीडेति । आदौ लज्जाप्रसरः । तदनन्तरं रसः शृङ्गारादिः, भावश्चित्ताभिप्रायः, आभ्यां पुष्य चेष्य । जवनीविनिर्गमादनु नर्तकीवेयं दयिता मनो हरति । एवं च यथा जवनिकाविनिर्गमानन्तरं नटी प्रथमतो लज्जातिशयं प्रदर्य ततो रसाभिनयपुष्टचेष्टं प्रदर्शयति, ततो रसाविर्भावात्सामाजिकमनांसि हरति, तथेयं दयिता यथा जवन्यपसरति तथा प्रथमं लज्जाविशेषं विधाय ततः सरसाभिप्रायविलासं प्रदर्श्य ततो निर्भररतानन्दवत्तया नायकीयमनसोऽनन्यप्रवणतामापादयतीति भावः । इयमित्यनेनान्यासां प्रथमतो निर्लजतया किंचिन्मनोहारकत्वेऽपि न तासु नायकीयचित्तहारकत्वमिति वस्त्वावेद्यते । तेन च व्यतिरेकालंकारः ॥ दूती नायकं वक्ति
वाससि हरिद्रयेव त्वयि गौराज्या निवेशितो रागः ।
पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥ ५३९ ॥ वाससीति । वस्ने हरिद्रयेव गौराझ्या नायिकया त्वयि रागोऽनुरागः । पक्षे पीतिमा । संपादितः । गौराज्येति हरिद्राविशेषणमपि । स रागः सहसा । अप्रत
यमिति यावत् । पतता प्रविष्टेन । पक्षे संबन्धवता । जलेनेव पिशुनेन सूचकेन दूरीकृतः । एवं च न तस्या अपराध इति भावः ॥ ___एतादृशनायिकासाहचर्ये तव सर्वत्र कामुककृतपीडा स्यादिति कश्चित्कंचिदन्योक्त्या वक्ति
विष्वग्विकासिसौरभरागान्धव्याघबाधनीयस्य ।
कचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानम् ॥ ५४०॥ विष्वगिति । हे कुरज, सर्वतो विसारिसौगन्ध्येन योऽभिलाषस्वेनान्धा ये व्याधास्तैः पीडनीयस्य । विष्वागत्यादिना गोपनमशक्यमित्यावेद्यते । रागान्धपदेन कर्तव्याकर्तव्यविवेकवैधुर्यमावेशतेोध्याधपदेन हिंसत्वं द्योलते। भवतो.नामीमादाय