________________
आर्यासपचती।
कापि स्थलं नास्ति । एवं चैतस्याः समस्तगुणैविख्यातायास्तव गोपनाशक्यतया सर्वतः पीडा स्यात् , अत एतत्सङ्गस्त्याज्य इति ध्वन्यते ॥ | एकजातसजातीयगुणवत्त्वेऽपि क्वचित्कश्चिदस्ति विशेष इति कंचिदन्योक्त्या वकि
वटकुटजशालशाल्मलिरसालबहुवारसिन्धुवाराणाम् ।
अस्ति मिदा मलयाचलसंभवसौरभ्यसाम्येऽपि ॥ ५४१ ॥ वटेति । वटादिसिन्धुवारान्तवृक्षाणां मलयाद्रिजन्यसौगन्ध्यसाजात्येऽपि भेदोस्ति । एवं च चतुररेव तद्वैजायं ज्ञातुं शक्यं नान्यैरिति भावः॥ सामान्यवनितां काचिदन्योक्त्या समुपहसति
विनिहितकपर्दकोटिं चापलदोषेण शंकरं त्यक्त्वा ।
वटमेकमनुसरन्ती जाह्रवि लुठसि प्रयागतटे ॥ ५४२ ॥ विनिहितेति । विनिहिता समर्पिता कपर्दस्य जटाजूटस्य कोटिः प्रान्तभागो न तम् । पक्षे कोटिसंख्याककपर्ददातारम् । शंकरं शिवम् । पक्षे सुखसंपादकम् । वाञ्चल्यदोषेण त्यक्त्वा । दोषपदमनौचिती व्यनक्ति । हे जाह्रवि जहुतनये । एवं वैतादृशाचरणमनुचितं तवेति ध्वन्यते । एकं वटवृक्षम् । पक्षे वराटकम् । अपेतमाणा प्रयागतटे । पक्षे मध्यमपदलोपिसमासात्प्रलुप्तयागस्य पापीयसः समीप त्यर्थः । लुठसि । एवं च चाचल्यकरणमनुचितं तवेति भावः ॥ "किमिति विरहदुःखं त्वया मत्सख्या दत्तम्' इति वादिनी नायिकासखीं यको वक्ति
वेद चतुर्णा क्षणदा प्रहराणां संगम वियोगं च ।
चरणानामिव कूर्मी संकोचमपि प्रसारमपि ॥ ५४३ ॥ वेदेति । चतुःप्रहरसंबन्धिसंयोगं चतुःप्रहरसंबन्धिवियोगं च क्षणदा।क्षणदेव णदा । नायिकेत्यर्थः । वेद । कर्तुमिति भावः । एवं च यदि प्रसन्ना नायिका दा सैव प्रहरचतुष्टयसंबन्धि रतसुखं करोति, सैव चाप्रसन्ना प्रहरचतुष्टयसंबन्धि रहदुःखं करोतीति भावः । अत एव क्षणमुत्सवं ददाति यति चेति व्युत्पत्तिरपि गच्छते । अथ च प्रहरचतुष्टयसंबन्धि सङ्गसुखस्य तथाविधबिरहं रात्रिरेव वेद।