________________
२१६ रात्रीयप्रहरचतुष्टयसंबन्धिविरहवेदनायाश्च की सैवेलर्थः । दिवसीयविरहस्यापि रात्रावेवातिदुःखदत्वादिति भावः । चरणानां संकोचं प्रसारमपि यथा कूर्मी विजानाति, एवं च यथा चरणसंकोचप्रसरणसंपादनं कूर्वधीनं तथा संगमविरहसंपा. दनं नायिकाधीनमिति भावः । एवं च न ममापराध इति ध्वन्यते। यद्वा विरहिणी सखी वकि-हे सखि, चतुर्णा प्रहराणां संगम वियोगं च क्षपदा रात्रिर्वेद । चन्द्राधुद्दीपनादिप्राबल्याधुन्मादाद्यवस्थया नायकसमागमासमागमाभ्यां मत्सुखदुःखसाक्षिणी रात्रिरेवेति भावः । एवं च तादृश्यापि सख्या मत्सुखदुःखविचारणा न क्रियत इति सख्युपालम्भो व्यज्यते । अथवा चतुर्णा प्रहराण क्षणदा । समग्रा रात्रिरिति यावत् । सुखदुःखे वेद । मदीये इति भावः । एवं च क्षणमपि न रात्री विश्रान्तिवृत्तेति भावः । यद्वा सामान्यवनितां तदीयधात्री वक्ति-कूमीव क्षणदा चतुर्णा प्रहराणां सहं वियोगं च वेद । त्वं किमिति न वेत्सि । एवं च त्वयापि केऽप्यानेयाः केऽपि विनिःसारणीया इति भावः । अथवा सखी नायिकामुपदिशति-या धुत्सवदा कामिनी सा खदर्शनादिदानेन दिवसीयप्रहरचतुष्टयविरहसंपादनेनोत्कण्ठितं नायकं विधाय रात्रौ प्रहरचतुष्टयमपि रमयतीति भावः ॥ नायिकासखी नायकं वकि
वृतिविवरेण विशन्ती सुभग त्वामीक्षितुं सखी दृष्टिः ।
हरति युवहृदयपञ्जरमध्यसा मन्मथेषुरिव ॥ ५४४ ॥ वृतीति । हे सुभग । एतादृशनायिकानुरागशालित्वादिति भावः । भित्तिसुषिरेण त्वामवलोकयितुं विशन्ती यूनां हृदयरूपो यः पजरो वंशकरण्डिका तन्मध्यस्था । एवं च धारानुपघातो ध्वन्यते । मन्मथेषुरिव सख्याः । ममेति भावः । दृष्टिहरति । अर्थात्त्वामेव । एवं च पूर्व त्वगुणवणादिना त्वय्यासका, इदानींतनत्वद्विषयकविलोकनेन मन्मथवयान किंचिदपि मम सखी जानातीति, त्वय्यस्यन्तमासकेयमिति धन्यते । यद्वा युवहृदयपलरमध्यस्थति दृष्टिविशेषणम् । पजरपदेन निःसारणानहत्वं धन्यते । एवं च त्वामवलोकयितुं प्रवृत्ताया मत्सख्या उदासीनवस्तुतुल्यतया नयनविषयीभूता अन्ये युवानखस्याः कटाक्षकतानतापनाखामेव भावयन्तीति भावः । एवं च सर्वयुवस्पृहणीया या त्वामेव स्हयतीति सा स्वयमसमनुप्रास्यति ध्वन्यते ॥