________________
आर्याशती ।
यायातथ्यज्ञानवानयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति विपणितुलासामान्ये मा गणयैनं निरूपणे निपुण । धर्मघटोऽसावधरीकरोति लघुमुपरि नयति गुरुम् ॥ ५४५ ॥
1
विपणीति । हे निरूपणे निपुण । एवं चैतस्याम्यैः समताकरणे तवैवानुचितमिति व्यज्यते । रथ्यातुलासामान्ये एनं मा गणय । असो घर्मघटो लघुमधरीकरोति गुरुमुपरि नयति । क्वचित् 'एनां दिव्यतुला सा' इति पाठः । तत्र नायिकापक्षे योज्यम् ॥
सतां मनसः सकाशान्न किंचिन्महत्तरमिति कश्चिद्वक्ति
२१७
वासरगम्यमनूशेरम्बरमवनी च वामनैकपदम् ।
जलधिरपि पोतलङ्घयः सतां मनः केन तुलयामः ॥ ५४६ ॥ वासरेति । ऊरुरहितस्य । अरुणस्येत्यर्थः । अम्बरं दिवसोह्रयम् । वसुधा च वामनस्यैकपदम् । एकपदेनोल्लस्येत्यर्थः । समुद्रोऽपि पोतेन लङ्घयः । सतां मनः केन तुलयामः । एवं च महत्तरतयाभिमतस्याकारास्याल्पसमयेन चरणहीनोलङ्घनीयतया, तथा वसुधाया अपि हखपदलङ्घनीयतया, तथा जलधेरपि पोत इव पोत इत्युपमितेन खल्पेनाप्युल्लङ्घनीयतया, एतत्रयातिरिक्तवस्तुनोऽभावात्सतां मनो निरुपममित्यर्थः ॥
दूती नायिकां वक्ति
वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरङ्गाक्षि ।
पत्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥ ५४७ ॥
विततेति । हे कुरङ्गनेत्रे, विततं यत्तमस्तद्रूपा या मषी तस्या या रेखास्तद्रूपचिह्नवदुत्सङ्गो यस्य तादृशा ये ताराः पत्ररूपाक्षरसमूहा इव प्रकाशन्ते । एवं च त्वद्विरहखिन्नस्य नायकस्य त्वद्विज्ञापनापत्रमिवेदमाकाशमालोक्य त्वया तरया प्रस्थे - यमिति व्यज्यते । यद्वा मदनदेवस्येदं चन्द्रमुद्रामुद्रितं शासनपत्रं यन्मानवतीनां निःशङ्कं भवद्भिर्दुःखं देयमिति शारदादिनिजजनस्येत्यवगत्य मानमपहाय नायकमनुरञ्जयेति सखीवाक्यमेतत् ॥
विविधाङ्गभङ्गिषु गुरुर्नूतनशिष्यां मनोमवाचार्यः । वेत्रतयेव बालां तल्पे नर्तयति रतरीत्या ॥ ५४८ ॥ विविधेति । अनेकन भन्निषु गुरुमनोभवरूपाचार्यो नवीनान्तेवासिरूपां बालां