________________
२१८
काव्यमाला।
वेत्रलतयेव रतरीत्या वल्पे नर्तयति । एवं चेयमप्रेऽत्यन्तरतकलाप्रवीणा भविष्यतीति भावः ॥ नायको नायिका वक्ति
विपरीतमपि रतं ते सोतो नद्या इवानुकूलमिदम् ।
तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥ ५४९ ॥ विपरीतमिति । हे सुतनु, अनुकूलमिच्छाविषयीभूतम् । पक्षे कूलं रोधः । इदं ते विपरीतमपि रतम् । अपिना विपरीतरतेतररतसंग्रहः । यद्वापिरवधारणार्थकः । नद्या इव स्रोतो मम हृदयं तटतरुमिव वेगतः । वेगविशेषादित्यर्थः । आमूलं हरति । एवं च रतसामान्यस्याधिक्येऽपि विपरीतरतस्याधिक्यमित्यावेद्यते ॥ कश्चित्कंचिद्वति
वैभवमाजां दूषणमपि भूषणपक्ष एव निक्षिप्तम् । गुणमात्मनामधर्म द्वेषं च गृणन्ति काणादाः ॥ ५५० ॥ वैभवेति । दूषणमपि । अपिना हेयत्वमावेद्यते। भाग्यशालिनाम् । पक्षे वैभवं व्यापकत्वम् । भूषणपक्ष एव । एवकारेण दूषणपक्षव्यवच्छेदः । निक्षिप्तम् । स्थापितमित्यर्थः। उक्तमर्थमर्थान्तरन्यासेन द्रढयति-काणादा वैशेषिकशास्त्रप्रवतका अधर्म द्वेषं चात्मनां गुणं गृणन्ति । चतुर्विंशतिगुणेष्वेतयोर्गणनादिति भावः। एवं चाधर्मद्वेषयोर्दूषणपक्षनिक्षेपयोग्यत्वेऽप्यात्मनि विद्यमानतया गुणत्वं मुनिभिर. भिहितं तत्र का वार्तान्येषामिति भावः । एवं च दरिद्रस्यैव दोषं दोषत्वेन गणयन्ति पर्व इति दारिद्यमसम्यगिति व्यज्यते ॥
वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसजन्तः ।
कं वञ्चयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च ॥ ५५१ ॥ वक्रेति । वक्राः कुटिलाः । कापव्येन स्नेहवन्तः । मलिनाः । पापकारित्वासाहजिकश्यामताशालित्वादित्युभयोति मावः । कर्णान्तिके प्रसजन्तः । परापकारार्थ विशालत्वादित्युभयत्र भावः । हे सखे, खला वेश्याकटाक्षाच कं न वश्चयन्ति । अपि तु सर्वमेव । एवं चोभयसंसर्गस्तव नोचित इति व्यज्यते ॥