________________
आर्यासप्तशती ।
पाकोद्यमशालिनीं नायिकां रतार्थी नायको वक्ति
विद्युज्वालावलयितजलधरपिठरोदराद्विनिर्यान्ति । विशदौदनद्युतिमुषः प्रेयसि पयसा समं करकाः || ५५२ ॥ विद्युदिति । हे प्रेयसि, विद्युज्वालाभिर्व्याप्तं यन्मेषरूपपात्रम्, अथ च ' जलाधारभूतं यत्पिठरं तन्मध्यात्खच्छौदनकान्तिहारकाः करकाः पयसा जलेन । पक्षे दुग्धेन । सह विनिर्यान्ति । एवं चैतादृशकाले क्षुत्क्षामस्य दुग्धौदनभोजनदानवन्मम सुरतदानं जीवननिदानमित्यवगत्येतरव्यासङ्गं परिहाय मत्सविध एहीति ध्वन्यते । यद्वा वर्षोपलसहितैतादृशत्रुष्टौ कथं मया संकेते समागन्तव्यमिति वादिनीं काचिद्वति — विद्युदिति । एवं चैतादृशकालीनसुरतं दुग्धोदनभोजनादपि मधुरमित्यवगत्य संकेतं प्रयाहीति ध्वन्यते ॥
अत्यन्तरतोत्कण्ठाशाली नायको नायिकां वक्ति
-
२१९.
व्यजनादिभिरुपचारैः किं मरुपथिकस्य गृहिणि विहितैर्भे । तापस्त्वदूरुकदलीद्वयमध्ये शान्तिमयमेति ॥ ५५३ ॥
व्यजनेति । हे गृहिणि । एवं च सेवासंपादनौचित्यमावेद्यते । मरुपथिकस्य मे संपादितैर्व्यजनप्रभृतिभिरुपचारैः किम् । न किमपीत्यर्थः । एवं च मरुदेशा - दागतस्य भूयसी संतापवत्तेति भावः । किं तर्हि विधेयमित्यत आह-त्वदूरुरूपकदलीद्वयान्तरालेऽयं मदेकवेद्यस्तापः शान्तिमेति । एवं चान्यव्यासङ्गं विहाय रहसि सत्वरं प्रचलेति ध्वन्यते ॥
क्षुद्रेण यत्कर्म कर्तव्यं तद्विगुणं न विधेयमिति कश्चित्कमप्युपदिशति — वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै । दुर्वह नितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥ ५५४ ॥ वैगुण्येऽपीति । महता श्रेष्ठेन संपादितं कर्म विगुणत्वेऽपि शोभाये भवति । अर्थान्तरन्यासमाह – दुर्वहः । महत्त्वादिति भावः । यो नितम्बस्तेन निश्चलमपि नितम्बिनीनृत्यं हरति । चित्तमिति भावः ॥
काचिदत्यन्तं सा पतिव्रतेति वादिनीं कांचिद्वति—
वीक्ष्य सतीनां गणने रेखामेकां तया खनामाक्काम् । सन्तु युवानो हसितुं स्वयमेवापारि नावरितुम् ॥ ५५५ ॥ वीक्ष्येति । साध्वीनां गणने खनाम चिह्नरूपामेकां रेखां दृष्ट्वा युवानः । तदु