SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १२. काबनाल। पभोक्तार इति भावः । हसितुं सन्तु । खयमेवावरितुं निरोदुम् । हास्वमिति भावः । नापारि । एवं च तदीयसत्तीगणनारेखां दृष्ट्वा युवमिर्हसितमिति के वकव्यम्, तयैव कदमयं लोको प्रान्त इति हावं कृतमिति भावः । एवं तादृश्याः क सतीत्वमित्यावेद्यते। इतः किमिति नापसरसीति वादिनीं कांचित्कश्चिद्वति विन्ध्याचल इव देहस्तव विविघावर्तनर्मदनितम्बः । स्वगयति गति मुनेरपि समावितरविरथस्तम्भः ॥५५६ ॥ विन्ध्येति । अत्र संबुद्धिपदानुपादानं लोकभीतिमावेदयति । विविधोऽनेकप्रकारक आवर्त आवर्तनं चालनविशेषो यस्य स चासौ क्रीडाप्रदो नितम्बो यस्य ।पक्षे विविधा आवर्ता अम्भोत्रमणानि यस्यां तादृशी नर्मदा नदी यसिंखाशकटकवान् । अत एव संभावितः सूर्यरथस्य स्तम्भो येन । खैकदेशनितम्बेन तचक्रविनिर्जया. दिति भावः । यद्वा संभावितो रविरथस्य लक्षणया तचक्रस्य स्तम्भो येन । ततोऽप्यधिकपरिमाणशालिनितम्बवत्त्वादिति भावः । पक्षे रविरयस्य स्तम्मो गतिवि. च्छेदः । अत्युश्चत्वादिति भावः। तव देहो विन्ध्यादिरिव मुनेरपि मननशीलस्यापि । पक्षेऽगस्त्यस्य । गति श्लथयति । एवं च मननशीलस्यापि तवैतादृशदेहमवलोक्य गतिनिरोधो जायते, किं पुनर्मादृशस्य रसलम्पटस्पेति भावः । यद्वा विपरीतरतनिर्जितो नायको नायिका वति-विविधावर्तोऽनेकप्रकारकभवनम् । चलनविशेषादिति भावः । तेन क्रीडाप्रदो नितम्बो यस्य । संभावितो रविरथस्य खम्भः । पराभव इत्यर्थः । ततोऽप्यधिकतरगतिमनितम्बवत्त्वादिति भावः । पक्षे प्राग्वत् । मुनेरपि 'वामरं चपलं ध्यायेत्' इत्यादिकामतन्त्रोकचिन्तनवतोऽपि गतिं सामर्थ्य स्थगयति । एवं च त्वदासतचित्तस्य मम पराजयस्तव सुकर इति वन्यते ॥ काचिकचिदन्योक्त्या वक्ति वृतिमान गञ्जनसह निकाममुद्दाम दुर्नयाराम । परवाटीशतलम्पट दुष्टवृष सरसि गेहमपि ॥ ५५७ ॥ वृतीति । आवरणमजक, तिरस्कारसह, अत्यर्थ परमदुर्नयस्याराम । एवं च दुर्नयस्य त्वमेव स्थानमिति भावः। परकीयोपवनशतलम्पट, दुष्टवृष, गेहमपि सरसि । अपिना निजजनसंग्रहः । एवं व खनायिकाविसरणं तव नोचितमिति व्यज्यते।
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy