Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
१२.
काबनाल।
पभोक्तार इति भावः । हसितुं सन्तु । खयमेवावरितुं निरोदुम् । हास्वमिति भावः । नापारि । एवं च तदीयसत्तीगणनारेखां दृष्ट्वा युवमिर्हसितमिति के वकव्यम्, तयैव कदमयं लोको प्रान्त इति हावं कृतमिति भावः । एवं तादृश्याः क सतीत्वमित्यावेद्यते। इतः किमिति नापसरसीति वादिनीं कांचित्कश्चिद्वति
विन्ध्याचल इव देहस्तव विविघावर्तनर्मदनितम्बः ।
स्वगयति गति मुनेरपि समावितरविरथस्तम्भः ॥५५६ ॥ विन्ध्येति । अत्र संबुद्धिपदानुपादानं लोकभीतिमावेदयति । विविधोऽनेकप्रकारक आवर्त आवर्तनं चालनविशेषो यस्य स चासौ क्रीडाप्रदो नितम्बो यस्य ।पक्षे विविधा आवर्ता अम्भोत्रमणानि यस्यां तादृशी नर्मदा नदी यसिंखाशकटकवान् । अत एव संभावितः सूर्यरथस्य स्तम्भो येन । खैकदेशनितम्बेन तचक्रविनिर्जया. दिति भावः । यद्वा संभावितो रविरथस्य लक्षणया तचक्रस्य स्तम्भो येन । ततोऽप्यधिकपरिमाणशालिनितम्बवत्त्वादिति भावः । पक्षे रविरयस्य स्तम्मो गतिवि. च्छेदः । अत्युश्चत्वादिति भावः। तव देहो विन्ध्यादिरिव मुनेरपि मननशीलस्यापि । पक्षेऽगस्त्यस्य । गति श्लथयति । एवं च मननशीलस्यापि तवैतादृशदेहमवलोक्य गतिनिरोधो जायते, किं पुनर्मादृशस्य रसलम्पटस्पेति भावः । यद्वा विपरीतरतनिर्जितो नायको नायिका वति-विविधावर्तोऽनेकप्रकारकभवनम् । चलनविशेषादिति भावः । तेन क्रीडाप्रदो नितम्बो यस्य । संभावितो रविरथस्य खम्भः । पराभव इत्यर्थः । ततोऽप्यधिकतरगतिमनितम्बवत्त्वादिति भावः । पक्षे प्राग्वत् । मुनेरपि 'वामरं चपलं ध्यायेत्' इत्यादिकामतन्त्रोकचिन्तनवतोऽपि गतिं सामर्थ्य स्थगयति । एवं च त्वदासतचित्तस्य मम पराजयस्तव सुकर इति वन्यते ॥ काचिकचिदन्योक्त्या वक्ति
वृतिमान गञ्जनसह निकाममुद्दाम दुर्नयाराम ।
परवाटीशतलम्पट दुष्टवृष सरसि गेहमपि ॥ ५५७ ॥ वृतीति । आवरणमजक, तिरस्कारसह, अत्यर्थ परमदुर्नयस्याराम । एवं च दुर्नयस्य त्वमेव स्थानमिति भावः। परकीयोपवनशतलम्पट, दुष्टवृष, गेहमपि सरसि । अपिना निजजनसंग्रहः । एवं व खनायिकाविसरणं तव नोचितमिति व्यज्यते।

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284