Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 227
________________ आर्यासप्तशती। यद्वान्योक्त्या कश्चित्कंचन निन्दति । श्रीरपि लक्ष्मीखरूपापि येन खिनेन संभोग. विषये । मोहनविशेनेति विपरीतलक्षणया सुरतानभिज्ञेन शीलिता कृता । इतरेऽपि यदि पुरुषाः सोऽपि हरिरिव हरिः पशुतुल्यः पुरुषखदा किं कुर्मः । एवं चैतादृशस्य पुरुषेषु गणना न युक्तेति भावः ॥ मानवती सामान्यवनितां सखी वक्ति शके या खैर्यमयी लथयति बाहू मनोमवस्यापि । दर्पशिलामिव भवती कतरस्तरुणो विचालयति ॥ ५६१ ॥ शङ्कइति । संबुद्धिपदानुपादानं क्रोधमावेदयति । या स्थैर्यप्रचुरा बाहू अपि । अपिना चाटुवचनादिसमुच्चयः । श्लथयति । चालयितुमशक्यत्वादिति भावः । एवं च करकर्षणादिनापि नेतश्चलतीति क्रोधातिशयवत्ता द्योतयति । मनोमवस्य दर्पशिलामिव । मनोभवपदेनाकुण्ठितत्वं ध्वन्यते । भवतीं कतरस्तरुणो विचाल यति । न कोऽपीत्यर्थः । इति शङ्के । एवं चैतादृशकोपकरणे कस्त्वामनुरजयिष्यतीति ध्वन्यते । यद्वा मनोभवस्येति बाहू इत्यत्रान्वेति ॥ नायिकासखी नायकमन्योक्त्या वक्ति शार्दूलनखरमगुर कठोरतरजातरूपरचनोऽपि । बालानामपि बाला सा यस्यास्त्वमपि हृदि वससि ॥ ५६५ ॥ । शार्दूलेति । हे व्याघ्रनखकुटिल, अथ च शार्दूलनखवत्कुटिल । तथाविधाचरणवत्त्वादिति भावः । कठिनतरजातरूपस्य सुवर्णस्य रचना यस्मिन् । अथ चे जाता रूपस्य रचना यस्य । सौन्दर्यशालिन्यपि । त्वमपि । अपेरितरभूषणसमुचयो निन्द्यत्वं चार्थः । यस्या हृदि वससि । भूषणरूपतयेति भावः । अथ च तस्यास्त्वदासचत्वादिति भावः । सा बालानामपि मध्ये बाला । अतिबालिका। अत्यन्तमुग्धेति भावः । सुवर्णयुतव्याघ्रनखं बालहृदि भूषणं भवतीति भावः। एवं चैतादृशे कौटिल्यादिशालिनि सौन्दर्यवत्त्वेऽप्यासक्तिसंपादने कथमिव मौर्य न भवतीति भावः । यद्वा जाता रूपस्य रचना यस्याः। एतादृश्यपि तारुण्यशा. लिन्यपि सात्यन्तबालिकवेत्यर्थः । इतरत्पूर्ववत् ॥ नायिकासखी नायकं वकि श्रुत एव श्रुतिहारिणि रागोत्कर्षेण कण्ठमधिवसति । E: गीत इव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥ ५१६ ॥ :.भूत एवेति । श्रवणसमय एवं कर्णसुखजनके । पक्षे श्रुतिमिमनोहारिणीति

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284