________________
आर्यासप्तशती।
यद्वान्योक्त्या कश्चित्कंचन निन्दति । श्रीरपि लक्ष्मीखरूपापि येन खिनेन संभोग. विषये । मोहनविशेनेति विपरीतलक्षणया सुरतानभिज्ञेन शीलिता कृता । इतरेऽपि यदि पुरुषाः सोऽपि हरिरिव हरिः पशुतुल्यः पुरुषखदा किं कुर्मः । एवं चैतादृशस्य पुरुषेषु गणना न युक्तेति भावः ॥ मानवती सामान्यवनितां सखी वक्ति
शके या खैर्यमयी लथयति बाहू मनोमवस्यापि ।
दर्पशिलामिव भवती कतरस्तरुणो विचालयति ॥ ५६१ ॥ शङ्कइति । संबुद्धिपदानुपादानं क्रोधमावेदयति । या स्थैर्यप्रचुरा बाहू अपि । अपिना चाटुवचनादिसमुच्चयः । श्लथयति । चालयितुमशक्यत्वादिति भावः । एवं च करकर्षणादिनापि नेतश्चलतीति क्रोधातिशयवत्ता द्योतयति । मनोमवस्य दर्पशिलामिव । मनोभवपदेनाकुण्ठितत्वं ध्वन्यते । भवतीं कतरस्तरुणो विचाल यति । न कोऽपीत्यर्थः । इति शङ्के । एवं चैतादृशकोपकरणे कस्त्वामनुरजयिष्यतीति ध्वन्यते । यद्वा मनोभवस्येति बाहू इत्यत्रान्वेति ॥ नायिकासखी नायकमन्योक्त्या वक्ति
शार्दूलनखरमगुर कठोरतरजातरूपरचनोऽपि ।
बालानामपि बाला सा यस्यास्त्वमपि हृदि वससि ॥ ५६५ ॥ । शार्दूलेति । हे व्याघ्रनखकुटिल, अथ च शार्दूलनखवत्कुटिल । तथाविधाचरणवत्त्वादिति भावः । कठिनतरजातरूपस्य सुवर्णस्य रचना यस्मिन् । अथ चे जाता रूपस्य रचना यस्य । सौन्दर्यशालिन्यपि । त्वमपि । अपेरितरभूषणसमुचयो निन्द्यत्वं चार्थः । यस्या हृदि वससि । भूषणरूपतयेति भावः । अथ च तस्यास्त्वदासचत्वादिति भावः । सा बालानामपि मध्ये बाला । अतिबालिका। अत्यन्तमुग्धेति भावः । सुवर्णयुतव्याघ्रनखं बालहृदि भूषणं भवतीति भावः। एवं चैतादृशे कौटिल्यादिशालिनि सौन्दर्यवत्त्वेऽप्यासक्तिसंपादने कथमिव मौर्य न भवतीति भावः । यद्वा जाता रूपस्य रचना यस्याः। एतादृश्यपि तारुण्यशा. लिन्यपि सात्यन्तबालिकवेत्यर्थः । इतरत्पूर्ववत् ॥ नायिकासखी नायकं वकि
श्रुत एव श्रुतिहारिणि रागोत्कर्षेण कण्ठमधिवसति । E: गीत इव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥ ५१६ ॥ :.भूत एवेति । श्रवणसमय एवं कर्णसुखजनके । पक्षे श्रुतिमिमनोहारिणीति