SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २२२ काव्यमाला। नमुपधातुमुपधानीकर्तुं नालभसे न नम्रीकरोषि, न धारयसीति वा । तत्र हेतुमाह-पीनोच्चकुचभरदूरीभूतम् । एवं च त्वन्मौलौ वदनोपधानभवनाभावे न मन्मुखस्यापराधः, किंतु पीनोचत्वत्कुचयोरेवेति भावः। यद्वा मम मुखमुपधानीकर्तुमस्तकम् । ममेति भावः । नालमसे न स्पृशसि । स्पष्टुं न शक्नोषीत्यर्थः । न प्रामोषीति वा । तत्र हेतुः पीनोतु त्यादि । अथवा मुखं खस्येति भावः । स्थापयितुं मम मौलिं न स्पृशसि । किं तु स्मृशेति भावः । यतस्त्वदीयपीनोचकुचान्तरितम् । एवं च कराभ्यां मम मौलिमुन्नमय्य खवदनं स्थापयेति भावः । एवं च चुम्बनौत्कण्ठ्यं खस्य च पीनोचकुचभारतया मौलेरुममनासामर्थ्य योयते ॥ कश्चिदूतीं पति वदनव्यापारान्तावादनुरक्तमानयन्ती त्वम् । . दूति सतीनाशार्थ तस्य भुजंगस्य दंष्ट्रासि ॥५६२ ॥ बदनेति । हे दूति, वदनव्यापारेण वचनरचनया योऽन्तर्भावः परहृदयप्रवेशस्तस्मात् , अनुरक्तमनुरागवन्तम् । पक्षे मुखसंबन्धेन यदन्तःप्रवेशनं तस्मात्, अनु पश्चाद्रकं रुधिरम् । सतीसमुदायमानयन्ती त्वं तस्य खिशस्य सर्पस्य च दंष्ट्रासि । एवं च वचनरचनया तया तथा हृदयं प्रविश्य पातिव्रत्यभर विधाय तेन खिोन सह कामिनीसमूह योजयसीति भावः । वदनव्यापारपदेन द्रव्यव्ययाद्यभावो द्योत्यते । सार्थपदेन सामर्थ्यातिशयो व्यज्यते । दंष्ट्रापदेन त्वां विना सोऽकिंचित्कर इति धन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता वकारव्रज्या । शकारवज्या। कस्यचित्रायकस्येतरनायकसाधारण्यमसहमाना काचिकांचिदन्योक्त्या वकि श्रीरपि भुजंगमोगे मोहनविज्ञेन शीलिता येन । सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः॥५६३॥ श्रीरपीति । येन सुरतविलेन श्रीरपि । अपिना यदर्थ जगदखिलं यत्नमाचरतीति धन्यते । सर्पशरीरे शीलिता भुक्ता । भुजंगपदेन भयजनकत्वेऽपि तदभवनेनासक्त्यतिशयो द्योत्यते । यदि स हरिरपि पुरुषः, इतरेऽपि पुरुषास्त्रदा कुर्मः। एवं चैताहशसान्यैः सामान्यैः सह साम्यकरणमनुचितमिति व्यज्यते
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy