Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२२२
काव्यमाला।
नमुपधातुमुपधानीकर्तुं नालभसे न नम्रीकरोषि, न धारयसीति वा । तत्र हेतुमाह-पीनोच्चकुचभरदूरीभूतम् । एवं च त्वन्मौलौ वदनोपधानभवनाभावे न मन्मुखस्यापराधः, किंतु पीनोचत्वत्कुचयोरेवेति भावः। यद्वा मम मुखमुपधानीकर्तुमस्तकम् । ममेति भावः । नालमसे न स्पृशसि । स्पष्टुं न शक्नोषीत्यर्थः । न प्रामोषीति वा । तत्र हेतुः पीनोतु त्यादि । अथवा मुखं खस्येति भावः । स्थापयितुं मम मौलिं न स्पृशसि । किं तु स्मृशेति भावः । यतस्त्वदीयपीनोचकुचान्तरितम् । एवं च कराभ्यां मम मौलिमुन्नमय्य खवदनं स्थापयेति भावः । एवं च चुम्बनौत्कण्ठ्यं खस्य च पीनोचकुचभारतया मौलेरुममनासामर्थ्य योयते ॥ कश्चिदूतीं पति
वदनव्यापारान्तावादनुरक्तमानयन्ती त्वम् । . दूति सतीनाशार्थ तस्य भुजंगस्य दंष्ट्रासि ॥५६२ ॥
बदनेति । हे दूति, वदनव्यापारेण वचनरचनया योऽन्तर्भावः परहृदयप्रवेशस्तस्मात् , अनुरक्तमनुरागवन्तम् । पक्षे मुखसंबन्धेन यदन्तःप्रवेशनं तस्मात्, अनु पश्चाद्रकं रुधिरम् । सतीसमुदायमानयन्ती त्वं तस्य खिशस्य सर्पस्य च दंष्ट्रासि । एवं च वचनरचनया तया तथा हृदयं प्रविश्य पातिव्रत्यभर विधाय तेन खिोन सह कामिनीसमूह योजयसीति भावः । वदनव्यापारपदेन द्रव्यव्ययाद्यभावो द्योत्यते । सार्थपदेन सामर्थ्यातिशयो व्यज्यते । दंष्ट्रापदेन त्वां विना सोऽकिंचित्कर इति धन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता वकारव्रज्या ।
शकारवज्या। कस्यचित्रायकस्येतरनायकसाधारण्यमसहमाना काचिकांचिदन्योक्त्या वकि
श्रीरपि भुजंगमोगे मोहनविज्ञेन शीलिता येन ।
सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः॥५६३॥ श्रीरपीति । येन सुरतविलेन श्रीरपि । अपिना यदर्थ जगदखिलं यत्नमाचरतीति धन्यते । सर्पशरीरे शीलिता भुक्ता । भुजंगपदेन भयजनकत्वेऽपि तदभवनेनासक्त्यतिशयो द्योत्यते । यदि स हरिरपि पुरुषः, इतरेऽपि पुरुषास्त्रदा
कुर्मः। एवं चैताहशसान्यैः सामान्यैः सह साम्यकरणमनुचितमिति व्यज्यते

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284