Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 207
________________ मासिस्वती। नायकः सखायं वधि लमं अपने तस्याः सुविशाले कलितकारकरकोडे । वप्रे सकं द्विपमिव शृक्षारस्त्वां विभूषयति ।। ५०५ ॥ लग्नमिति । समीचीनविस्तीर्णे कलिताजीकृता 'तर्जन्यनामिके युके मध्यमा स्थादहिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥' इस्खेतलक्षणलक्षितल करिकरस्य केलियेन तस्मिन् । पक्षेत्रीकृतगजशुण्डाकेली । तस्या जपने लमं का शृङ्गारो वप्रे सकं गजमिव विशेषेण भूषयति । एवं चैतादृशमेव सर्वदा कुर्विति ध्वन्यते । “धथैः पदैः पिशुनयेच रहस्यवस्तु' इति कामशास्त्रादत्र सुरतारम्भगोधीवत्कलितकरिकरक्रीड इत्यर्थस्य यद्रीडादायित्वेनाश्लीलत्वं तन दूषणम् ॥ यथा न कस्यापि विज्ञानं भवति तथानेनेयं भुति काचित्कांचिदन्योक्त्या वक्ति लिप्तं न मुखं नाहं न पक्षती न चरणाः परागेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥ ५०६ ॥ लिप्तमिति । परागेण वदनं न लिप्तम् । इदमग्रेऽप्यन्वेति लिङ्गवचनविपरित णामेन । अझं न । पक्षती न । चरणा न स्पर्शमकुर्वतेव चतुरमधुपेन । मधुपदेनोन्मादशालित्वमावेद्यते। नलिन्या मधु पीतम् । नलिन्या इत्यनेन नायिका पद्मिनीत्वमावेद्यते । तेन च दुर्लभत्वम् । एवं चैतस्याः सनोऽपि गुप्ततयैव लब्धं शक्य इति व्यज्यते ॥ नायको दूतीं पति लम जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम । मुक्तमविशदमवेदनमिदमधिकसरागसाबाधम् ॥ ५०७ ॥ लग्नमिति । तस्या जघने लमं नखचिहं मम मानसं च शुष्यति । मानसप. देन शुष्कीभावानहत्वेऽपि तद्भवनेन विरहे वडवानलतुल्यत्वमावेद्यते । तेन च दुःसहत्वम् । शुष्कीभावेषूभयोवैलक्षण्यमाह-भुकं वृद्धिशून्यम् । अविश्वदमप्रक टम् । यद्वा न विद्यते विशदं यस्मात् । चिरकालीनतया लौहित्यापगमेन श्वेतमित्यर्थः । अवेदनं वेदनारहितम् । इदम् । मम मानसमित्यर्थः । अधिकं वृद्धिमत् । जघनेऽसन्तासक्तमिति भावः । सरागं प्रीतिमत् । साबा पीडासहितम् । एवं च स्था सत्वरं सो भवेत्तथा यतखेति धन्यते ॥

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284