Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती।
२०५
कारिणि । चरणातिथावित्यनेन प्रसादपात्रत्वं ध्वन्यते । प्रिक्या गवाक्षे व्यजनं दत्वा प्रसादः प्रकटीकृतः । व्यजनपरित्यागेन संतापनिवृत्तिप्रदर्शनेन प्रसादः प्रकटीकृत इति भावः। यद्वा गवाक्षे व्यजनस्थापनेनान्यानवलोकनीयत्वप्रदर्शनेन यथेच्छं सुरतविनामावद्योतनात्प्रसादप्रकटनमिति भावः । यद्वा केलिसदनस बहिः सखीविषये प्रणतिकारिणि मयि प्रियया वातायने व्यजनं दत्त्वा प्रसादः प्रकटीकृतः । कुपितेयं कदाचिद्वाक्षद्वारा तर्जयिष्यतीति भीतः सखीप्रसादनां विहाय यदि गतस्तदा तामिर्मत्प्रार्थनाया अकरणे मानापरित्यागेन नायकलेशो भवितेति यथेटमयं सखीप्रसादनां करोतु, ताश्च मदीयप्रसादनामिति प्रसादाविष्करणमिति भावः । अथवा गवाक्षे व्यजनसंस्थापनेन समीरणजनकस्यापि समीरणनिवारकत्वं यथा तथा दुःखजनकस्यापि तव दुःखनिवारकत्वमिति प्रदर्शनेन प्रसादाविष्कार इति भावः । एवं चैतस्या यथा चातुर्य न तथान्यासामिति ध्वन्यते॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता लकारव्रज्या ।
वकारव्रज्या। सर्वगोपनपुरःसरमनेनेयं भुक्तति व्यङ्गं काचित्कांचित्प्रकारान्तरेण वक्ति
वर्णहृतिर्न ललाटे न ललितमझं न चाघरे दंशः।
उत्पलमहारि वारि च न स्पृष्टमुपायचतुरेण ॥ ५११ ॥ वणेति । ललाटे वर्णस्य मकरिकादेईतिर्न । अङ्गमपि न म्लानम् । अधरे दंशोऽपि न । अर्थानायिकायाः । उपायनिपुणेनोत्पलं हृतं जलं च न स्पृष्टम् । एवं च सहचरीभिरपि न ज्ञातमिति भावः । नायिकायाः परकीयात्वात्संभोगचिहानुत्पादनपुरःसरं भुफेयमनेनेति भावः । एवं यद्येताहशचातुर्य तव तर्हि परकीयाभिरतिर्विधेयेति ध्वन्यते ॥ दूती पान्यं प्रति वकि
व्यालम्बि चूर्णकुन्तलचुम्बितनयनाचले मुखे तसाः ।
बाष्पजलबिन्दवोऽलकमुक्ता इव पान्य निपतन्ति ॥ ५१२ ।। व्यालम्बीति । हे पान्थ, तस्या वदने विशेषेणालम्बिनो ये चूर्णकुन्तलास्तैबुम्बितनयनप्रान्ते सति, मलकसंवन्धिमुजाफलानीव वाष्पोदकविन्दवः। जलपदेनाधिक्यं व्यज्यते। निपतन्ति । एवं च त्वरया त्वया समागन्तव्यमिति धन्यते॥

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284