SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। २०५ कारिणि । चरणातिथावित्यनेन प्रसादपात्रत्वं ध्वन्यते । प्रिक्या गवाक्षे व्यजनं दत्वा प्रसादः प्रकटीकृतः । व्यजनपरित्यागेन संतापनिवृत्तिप्रदर्शनेन प्रसादः प्रकटीकृत इति भावः। यद्वा गवाक्षे व्यजनस्थापनेनान्यानवलोकनीयत्वप्रदर्शनेन यथेच्छं सुरतविनामावद्योतनात्प्रसादप्रकटनमिति भावः । यद्वा केलिसदनस बहिः सखीविषये प्रणतिकारिणि मयि प्रियया वातायने व्यजनं दत्त्वा प्रसादः प्रकटीकृतः । कुपितेयं कदाचिद्वाक्षद्वारा तर्जयिष्यतीति भीतः सखीप्रसादनां विहाय यदि गतस्तदा तामिर्मत्प्रार्थनाया अकरणे मानापरित्यागेन नायकलेशो भवितेति यथेटमयं सखीप्रसादनां करोतु, ताश्च मदीयप्रसादनामिति प्रसादाविष्करणमिति भावः । अथवा गवाक्षे व्यजनसंस्थापनेन समीरणजनकस्यापि समीरणनिवारकत्वं यथा तथा दुःखजनकस्यापि तव दुःखनिवारकत्वमिति प्रदर्शनेन प्रसादाविष्कार इति भावः । एवं चैतस्या यथा चातुर्य न तथान्यासामिति ध्वन्यते॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता लकारव्रज्या । वकारव्रज्या। सर्वगोपनपुरःसरमनेनेयं भुक्तति व्यङ्गं काचित्कांचित्प्रकारान्तरेण वक्ति वर्णहृतिर्न ललाटे न ललितमझं न चाघरे दंशः। उत्पलमहारि वारि च न स्पृष्टमुपायचतुरेण ॥ ५११ ॥ वणेति । ललाटे वर्णस्य मकरिकादेईतिर्न । अङ्गमपि न म्लानम् । अधरे दंशोऽपि न । अर्थानायिकायाः । उपायनिपुणेनोत्पलं हृतं जलं च न स्पृष्टम् । एवं च सहचरीभिरपि न ज्ञातमिति भावः । नायिकायाः परकीयात्वात्संभोगचिहानुत्पादनपुरःसरं भुफेयमनेनेति भावः । एवं यद्येताहशचातुर्य तव तर्हि परकीयाभिरतिर्विधेयेति ध्वन्यते ॥ दूती पान्यं प्रति वकि व्यालम्बि चूर्णकुन्तलचुम्बितनयनाचले मुखे तसाः । बाष्पजलबिन्दवोऽलकमुक्ता इव पान्य निपतन्ति ॥ ५१२ ।। व्यालम्बीति । हे पान्थ, तस्या वदने विशेषेणालम्बिनो ये चूर्णकुन्तलास्तैबुम्बितनयनप्रान्ते सति, मलकसंवन्धिमुजाफलानीव वाष्पोदकविन्दवः। जलपदेनाधिक्यं व्यज्यते। निपतन्ति । एवं च त्वरया त्वया समागन्तव्यमिति धन्यते॥
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy