________________
काव्यमाला 1
बहङ्गनालम्पटनायिकामेवं त्वया नायको वाच्य इति सखी समुपदिशतिलज्जयितुमखिलगोपीनिपीतमनसं मधुद्विषं राधा । अज्ञेव पृच्छति कथां शंभोर्दयितार्षतुष्टस्य ॥ ५०८ ॥
२०१
लज्जयितुमिति । समग्रगोपीनां नितरां पीतं स्वाधीनीकृतं मनो येन तम् । नितरामित्यनेन गोपीमनसोऽन्यविषयसंबन्धाभावो व्यज्यते । मधुद्विषम् । चोन्मादशून्यत्वं ध्वन्यते । लज्जयितुं लजां प्रापयितुम् । राधा अज्ञेव दयितार्धेन तुष्टस्य शंभोः सुखजनकस्य कथां पृच्छति । एवं च सर्वदा कामबाधाशालिनः कामिनीसुखसंपादकस्य महादेवस्य नायिकार्थेन तुष्टिः, तव तु न तथेति निर्लज्जस्त्वमसीति द्योत्यते । एवं च यथा राधयान्यवार्तया श्रीकृष्णं प्रत्यनुचितं त्वया विधीयत इत्युक्तं तथा त्वया खनायकं प्रति वाच्यमिति ध्वन्यते । यद्वा लजयितुम् । अर्थाद्वोपीस - मूहम् । निखिलगोपीभिर्मिलिताभिर्निपीतं स्वीकृतं मनो यस्य तं मधुद्विषं दयितार्ध - तुष्टस्य शंभोः कथां पृच्छति । एवं च यत्र दयितार्धमेव नायिकस्य सुखसंपादकतया तन्मनोवशीकरणसमर्थम्, तत्र किमु वाच्यं नायिकाजातमिति भावः । अथवा निपीतं मनो यासाम् । न तु ताभिरित्यर्थः । एवंच गुणविशेषशालितया हरनिरूपितप्रेमबत्तया शिवया खस्यार्धेनापि नायकः संतोष्य स्वाधीनतां नीतः, भवतीभिश्च सर्वा • भिर्न मधुद्विद खाधीनीकृत इति भवत्यो गुणविहीनतया न तत्र निरूपितप्रेमवत्य इति व्यज्यते । एवं च गोपीपदमपि चातुर्याभावप्रतिपादनेनार्थवत् ॥ सपत्नीत्वमत्यन्तासह्यमिति काचित्कांचिद्वति—
लक्ष्मीनिःश्वासानलपिण्डीकृत दुग्धजलधिसारभुजः ।
क्षीरनिधितीरसुदृशो यशांसि गायन्ति राधायाः || ५०९ ॥ लक्ष्मीति । लक्ष्म्या निःश्वासानलैः । परमेश्वरस्य राधातिसक्त्येर्ष्ययोष्णैरिति भावः । गाढीकृतदुग्धजलधिसारभोजनवत्यः क्षीरनिधितीरवसतिशालिन्यो नायिका राधाया यशांसि गायन्ति । यत्प्रसादादेवमस्माभिर्भुज्यत इति धियेति भावः । एवं च यत्र लक्ष्म्या अप्येवं सपत्नीदुःखम्, तत्र किमु वाच्यमन्यासामिति व्यज्यते ॥ कश्चित्कंचिद्वति—
लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।
प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥ ५१० ॥ लीलेति । केलिसदनस्य बहिः सखीषु सतीषु । मयि चरणातिथौ प्रणति