________________
मासिस्वती। नायकः सखायं वधि
लमं अपने तस्याः सुविशाले कलितकारकरकोडे ।
वप्रे सकं द्विपमिव शृक्षारस्त्वां विभूषयति ।। ५०५ ॥ लग्नमिति । समीचीनविस्तीर्णे कलिताजीकृता 'तर्जन्यनामिके युके मध्यमा स्थादहिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥' इस्खेतलक्षणलक्षितल करिकरस्य केलियेन तस्मिन् । पक्षेत्रीकृतगजशुण्डाकेली । तस्या जपने लमं का शृङ्गारो वप्रे सकं गजमिव विशेषेण भूषयति । एवं चैतादृशमेव सर्वदा कुर्विति ध्वन्यते । “धथैः पदैः पिशुनयेच रहस्यवस्तु' इति कामशास्त्रादत्र सुरतारम्भगोधीवत्कलितकरिकरक्रीड इत्यर्थस्य यद्रीडादायित्वेनाश्लीलत्वं तन दूषणम् ॥ यथा न कस्यापि विज्ञानं भवति तथानेनेयं भुति काचित्कांचिदन्योक्त्या वक्ति
लिप्तं न मुखं नाहं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥ ५०६ ॥ लिप्तमिति । परागेण वदनं न लिप्तम् । इदमग्रेऽप्यन्वेति लिङ्गवचनविपरित णामेन । अझं न । पक्षती न । चरणा न स्पर्शमकुर्वतेव चतुरमधुपेन । मधुपदेनोन्मादशालित्वमावेद्यते। नलिन्या मधु पीतम् । नलिन्या इत्यनेन नायिका पद्मिनीत्वमावेद्यते । तेन च दुर्लभत्वम् । एवं चैतस्याः सनोऽपि गुप्ततयैव लब्धं शक्य इति व्यज्यते ॥ नायको दूतीं पति
लम जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम ।
मुक्तमविशदमवेदनमिदमधिकसरागसाबाधम् ॥ ५०७ ॥ लग्नमिति । तस्या जघने लमं नखचिहं मम मानसं च शुष्यति । मानसप. देन शुष्कीभावानहत्वेऽपि तद्भवनेन विरहे वडवानलतुल्यत्वमावेद्यते । तेन च दुःसहत्वम् । शुष्कीभावेषूभयोवैलक्षण्यमाह-भुकं वृद्धिशून्यम् । अविश्वदमप्रक टम् । यद्वा न विद्यते विशदं यस्मात् । चिरकालीनतया लौहित्यापगमेन श्वेतमित्यर्थः । अवेदनं वेदनारहितम् । इदम् । मम मानसमित्यर्थः । अधिकं वृद्धिमत् । जघनेऽसन्तासक्तमिति भावः । सरागं प्रीतिमत् । साबा पीडासहितम् । एवं च स्था सत्वरं सो भवेत्तथा यतखेति धन्यते ॥