________________
२०३
सकारवज्या ।
अत्यन्त पराङ्गनालम्पटास्थिरमतिनायकासका नामिकां काचिदन्योक्त्या वि
मासि कृष्णवर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि । अयमखिलनयनसुभगो न मुक्तमुक्तां पुनः स्पृशति ॥५०२ ॥ लग्नासीति । हे सुस्निग्धे । जेहवशादिति भाव उभयत्र । वर्ति, कृष्णवर्त्मनि वहौ । अथ च दुष्टमार्गशालिनि नायके लतासि तत्संबन्धमागिनी संवृत्तासि । हन्त खेदे । दग्धासि । एवं च न विलम्ब इति भावः । अथ च दुःखभागिनी संवृत्तासि । यतोऽयं सकलनयनस्पृहणीयः । प्रकाशवत्त्वात् । अथ च सौन्दर्या - दिगुणशालित्वात् । एवं च नायिकासौलभ्यमस्येति ध्वन्यते । भोगोत्तरपरित्यकां स्पृशति । एवं चैतत्संगतिरनुचितेति ध्वन्यते ॥
1
संपत्त्या गुणवत्ता दारिद्र्यात्तदभाववत्तेति कश्चिद्वक्तिलक्ष्मीः शिक्षयति गुणानमून्पुनर्दुर्गतिर्विधूनयति ।
पूर्णो भवति सुवृत्तस्तुषाररुचिरपचये वक्रः ॥ ५०३ ॥
.
लक्ष्मीरिति । श्रीर्गुणानुपदिशति । अमून्पुनदौर्भाग्यं दूरीकरोति । अत्रार्थान्तरन्यासमाह — पूर्णमण्डलचन्द्रः सुवृत्तः समीचीनवर्तुलः । अथ च समीचीनावरणवान् । अपचये कलाविनाशे कुटिलः । एवं च संपत्त्यर्जनमत्यन्तावश्यकम् । तदविरोधेन गुणार्जनं विधेयमिति द्योत्यते ॥
नायिका सखीं वक्ति
ऌतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः ।
पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ॥ ५०४ ॥
लूतेति । हे सखि, ऊर्णनामितन्तु पिहितद्वारः । पतन्तः पक्षिणो यत्र । शून्यालयः । तस्मिन्नायके पथिके देशान्तरस्थे सति नापिहितवदनो रोदितीव । एवं चैतादृशैतद्रोदननिवारणं पुण्यजनकतयावश्यं विधेयं स्वयेति द्योत्यते । तेन च तद्गमनोत्तरकालमारभ्य न केनाप्यत्र सङ्गः संवृत्तः । अत इदानीमन्यनायकमानयेति ध्वन्यते ॥