________________
आयसप्तशती ।
२०१
कठिनो वा न । चिरकालावस्थायी वा न । अर्थान्तरन्यासमाह — वर्षाणां पाषाणो. ऽपि । करकेति यावत् । अत्यन्तकोमलः खल्पकालावस्थायी च । एवं चैतादृशातिशयितकोपकरणे रसवत्ताहानिरेव भवित्रीति ध्वन्यते । तेन चैनं परिहृत्य प्रसन्ना भवेति ॥ 'येनैतादृशक्लेशादिकं भवति तदपेक्षाकरणमनुचितम् इति वादिनीं सखीं नायिका वक्ति
रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्घः । खमेनेव हि विहितो नयनमनोहारिणा तेन ॥ ४९९ ॥
रोदनमिति । हे सखि, एतद्रोदनं सम्यक् । किं बहु । वक्तव्यमित्यर्थः ॥ मरणमपि मम समीचीनम् । नयनमनः खाधीनतासंपादकेन । पक्षे नयनमनोव्यापाराभावसंपादकेन । खप्नेनेव तेन नायकेन विहितः । लिङ्गविपरिणामेन रोद• नेऽप्येतदन्वेति । रोदनादिकं खप्ने सम्यगिति स्वप्न विवेचकाः । खप्ने केवलमनो व्यापारस्य सत्त्वेऽपि नयनव्यापारविशिष्टस्य तस्याभावान्नात्र दोषः ॥
नायिका सखीं वक्ति
रोषेणैव मया सखि वक्रोऽपि ग्रन्थोऽपि कठिनोऽपि ऋजुतामनीयतायं सद्यः खेदेन वंश इव ॥ ५०० ॥
रोषेणेति । हे सखि, वक्रोऽपि प्रन्थिलोऽपि कठिनोऽप्ययं नायको मया क्रोधेनैव सद्यः ऋजुतां खेदेन वेणुरिव प्रापितः । खेदेन वेणोर्वक्रताद्यपगच्छतीति काष्ठर्जुतासंपादनविदः ॥
सखी नायिकां वक्ति -
रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे ।
रञ्जयति स्वयमिन्दुं कुनायकं दुष्टदूतीव ॥ ५०१ ॥
1
रजनीमिति । इयं पितृप्रसूः सायंसंध्या रात्रिमुपनेतुं चन्द्रसमीपं नेतुमादावुपतस्थे । स्वयं चन्द्रं दुष्टदूती दुष्टनायकमिव रजयति । रक्तरूपवन्तम् । पक्षेऽनुरागवन्तम् । करोति । एवं च संध्यात्वेन जगद्वन्द्यत्वेऽप्येतादृशानुचितकार्यकारित्वम्, तत्र का वार्तान्यासाम् । अतः खयमेव नायकानुनयो विषेय इति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्ययार्थदीपनया समेता रकारव्रज्या ।