________________
२००
काव्यमाला |
सखी नायिकां वक्ति
राजसि कृशानि मङ्गलकलशी सहकारपल्लवेनेव | तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण ॥ ४९५ ॥
1
1
1
राजसीति । हे कृशानि प्रथमं कौमारप्रभृति संजातप्रीतिमता । पक्षे रागो लौहित्यम् । तेनैव । नायकेने ति भावः । चुम्बितवदना रसालपल्लवेन मङ्गलकलशीव राजसि । एवं च नान्यत्र मनो बन्धनीयमिति ध्वन्यते । यद्वा तेनैव । निकटस्थितेनैवानेनेति भावः । राजसि राजिष्यसि । चिरकालीनैतत्संगतिनचिता । किं तु नवीनानुरागवत्संगतिरत्यन्तोचितेति व्यज्यत इति वा दूती नायिकां वति ॥ गुणवत्संगतिकरणमेवोचितमिति सखी नायिकां वक्ति—
रूपगुणहीनहार्या भवति लघुघूलिरनिलचपलेव ।
प्रथयति पृथुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥ ४९६ ॥
रूपेति । रूपं च गुणाश्च तैहींनेन हार्या तत्संगतिमती । पक्षे रूपरूपो यो गुणस्तदभाववता हर्तुं योग्या । तरुणी । वायुचञ्चला धूलिरिव लघुर्मवति । पृथवो गुणा यस्य तेन नेया । पक्षे महत्तरगुणैः । नौकेव गौरवं प्रथयति । एवं चाचेतastra गतिस्तत्र का वाच्या सचेतन इति भावः ॥
सखी नायकं वक्ति
रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे | सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥ ४९७ ॥
रागेति । विरहक्रमेण मन्दमन्दं मन्दाक्षं हीर्यत्र । एतादृशे नवे रागे । 'विजृम्भित-' इति पाठे विरहविशेषणम् । स्मितहसितलज्जासहितं विलोकनमिष्टं सिद्धं कथयति । एवं चाचिरमेवानया सह सङ्गस्तव भावीति ध्वन्यते ॥
कुपितनामिकां दूती वक्ति
रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा । वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥ ४९८ ॥
रोषोऽपीति । रसः धारादिः । पक्षे जलम् । तद्वतीनाम् । एवं चान्यासामन्यादृशी गतिरिति भावः । रोषोऽपि । अपिना कर्कशत्वाद्यौचित्यमावेद्यते ।