________________
आसिसकती। इयं सुष्टु वर्णरचना। एवं सति दरिद्रसहचारिणी। अतः प्रतिगृहद्वार प्रमसि । एवं चैतादृशरूपशालित्वे विसंगतिसंपादनमचितम् । उचितं माम्बवत्संगतिसंपादनमिति वन्यते । यद्धा निइखगतप्रतियोद्देशव्याजेन काचिलकांचिद्वति ॥ कश्चित्कंचिद्वधि
रचिते निकुञ्जपर्मिक्षुकपात्रे ददाति सावज्ञम् । . पर्युक्तिमपि सुतीक्ष्णश्वासकदुष्णं वधूरनम् ॥ ४९३ ॥
रचित इति । निकुञसंबन्धिपत्रैः संपादिते भिक्षुकस्य पात्रेऽवज्ञासहितं यथा स्यात्तथा वधूः पर्युषितमप्यनमसन्ततीक्ष्णा ये श्वासास्तैरीषदुष्णं ददाति । संकेतनिकेतनिकुञ्जपत्रच्छेदनेन संकेतस्थानविघटकतया देवक्त्वादवज्ञा । मिथुकत्वादभदानम् । स्थान विघटनदुःखक्शाच्वासेपूष्णता । यद्वा संकेते मया गत्वा परावृत्तमिति शापनायानीतनिकुञ्जपत्रपात्रमवलोक्य दुःखवशाच्वासेपूष्णता । लोकगोपनाय बावज्ञाकरणं पर्युषितानदानं च ॥ सखी नाविका वक्ति
रक्षति न खलु निजस्थितिमलघुः स्थापयति नायकः स यथा ।
तिष्ठति तथैव तद्गुणविद्धयं हारयष्टिरिव ॥ १९ ॥ रक्षतीति । हे सखि, योऽलघुः श्रेष्ठः । पक्षे महान् । निजस्थितिं न रक्षति । चाञ्चल्यं न त्यजतीत्यर्थः । स नायकः कान्तः । पक्षे हारमध्यमणिः । यथा स्थापयति तथैव तस्या गुणैश्चातुर्यादिभिः। पक्षे गुणः सूत्रम् । तैर्विद्धा तत्कृतासक्तिमती । पक्षे यथाश्रुतम् । इयं त्वत्प्रतिवेशिनी हारयष्टिरिव तिष्ठति । एवं च स न खकीयचाचल्यादिदुःशीलं परित्यजति । इयं तु तचातुर्यायासका तन्मनस्कतयैव कालमतिवाहयतीति भावः। एवं चैतादृशावस्थितिखव नोचितेति नायिका प्रत्यावेद्यते। यद्वा यथा हारमध्यमणेश्वाञ्चल्येऽपि तद्गुणविद्धयं हारलता न चाचल्यं विधत्ते तथा त्वया तद्गुणमात्रावलोकनादिना तवाचल्यमगणयित्वा निश्चलतया स्थेयमिति व्यज्यत इत्यर्थः । यद्वा सखी सखी वक्ति-हे सखि, अलघुः श्रेष्ठेयं नायिका निजस्थिति न रक्षति खमर्यादा न विचारयति । यथा नायकः स्थापयति तथैव तच्चातुर्यागुणविद्धा हारयष्टिरिव तिष्ठति । एवं च खोचितव्यवहारमियं परिराज्य केवलं सदधीना जातेति भावः ॥