________________
काबमाला। .. मकां विनावस्थितिर्न सुखदेति विकि
रतिकलहकुपितकान्ताकरचिकुराकर्षमुदितगृहनावम् ।
भवति भवनं तदन्यत्याग्वंशः पर्णशाला चा॥ १८९॥ रतीति । रतिकलहे कुपिता कान्ता तया कराभ्यां यत्केशात्कर्षणं तेन संतुष्टो । गृहनायो यत्र । यद्वा कान्ताहखाकेशाकर्षणं यत्र । तदनादिकमपि भवनम् । तद्धिचम् । महत्तरप्रासादादिकमित्यर्थः । प्राग्वंशः पत्नीशाला । 'प्राग्वंशः प्राग्यविर्गहात्' इत्यमरः । पर्णशाला वा । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः ॥
नायिका वैद्यं वति. रोगी राजायत इति जनवादं सत्यमद्य कलयामि ।
आरोग्यपूर्वकं त्वयि तल्पप्रान्तागते सुभग ॥ ४९० ॥ रोगीति । हे सुभग, त्वयि शयनीयसविधागमनवति सति रोगवानराजबदाचरसीति राजायत इति लोकप्रवादमारोग्यपूर्वकं सत्यं मिथ्यात्वशून्यमद्य कलयामि । एवं चातिमहत्तरभाग्यशालिन्यहं त्वदर्शनेनाद्य संवृत्तेति भावः । एवं च मन्मथदुःखरूपरोग दूरीकृत्यानन्दविशेषभागिन्यहं त्वया विधेयेति चोयते ॥ नायिका प्रति कश्चिद्वक्ति
रुद्धखरसप्रसरस्सालिमिरगे नतं प्रियं प्रति मे ।
स्रोतस इव निमं प्रति रागस्य द्विगुण आवेगः ।। १९१ ।। रुद्धति । सखीमिः प्रतिषिद्धः खरसस्य खाच्छन्द्यस्य प्रसरो यस्य । पक्षे रसो जलम् । मम प्रीतेः । अग्रे नतम् । प्रणिपातार्यमिति भावः । प्रियं प्रति निम्नं प्रति नीचदेशं प्रति स्रोतस इव । 'स्रोतोऽम्बुसरणं खतः' इत्यमरः । द्विगुण आवेग आधिक्यम् । पक्षे आ समन्ताद्वेगः। एवं च निरुद्धस्य जलस्य यथाधिकं प्रवाहः प्रचलति तथा सखीभिर्निषिद्धाया मम प्रियं प्रति प्रेमाधिक्यं जायत इति भावः । एवं च प्रियं प्रति प्रेमनिरोधो मम दुर्घट इति ध्वन्यते। तेन च सख्युपदेशोलने । न ममापराध इति ।। . काचित्कांचिति
रूपमिदं कान्तिरसावधमुत्कर्षः सुवर्णरचनेयम् ।
दुर्गतमिलिता कलिते अमसि प्रतिमन्दिरद्वारम् ॥ १९२। रूपमिति । हे ललिते सुन्दरि, इदं रूपम् । असो कान्तिः । अनुत्त।