________________
आर्यासप्तशती। गापि पदेनाधिकारेण श्लीपदेनेव रोगविशेषवचरणेनेव किं कार्यम् । न किंचित्ककमिति भावः । एवं च तदेवाधिकारपदं यदुपकारादिसंपादकमिति भावः॥ कश्चित्कंचिदन्योक्त्या वक्ति
यूथपते तव कश्चिन हि मानस्यानुरूप इह विटपी ।
प्रेरय दिनं निदाघद्राधीयः क खलु ते छाया ॥ १८६ ॥ यूथेति । हे यूथपते । एवं चान्येषां पालकस्त्वमसीति चोयते । तव हि निश्चितं मानस्य परिमागविशेषस्य । पक्षे प्रतिष्ठायाः । अनुरूपो योग्यः । कश्चि. विटपी वृक्षो न । निदाघेनातिदीर्घ दिनं गमय । निश्चयेन तव छाया क । एवं च कुटुम्बपोषकस्य भवतो न कचिदाश्रयः । समयोऽयं कठिनतरः । सोऽयं यथातथातिवाहनीय इति द्योलते ॥ दैवात्संपद्विहीनोऽप्ययमन्येषामुपकारक इति कश्चित्कंचिदन्योक्त्या वति
यद्यपि चन्दनविटपी फलपुष्पविवर्जितः कृतो विधिना।
निजवपुषैव तथापि हि स हरति संतापमपरेषाम् ॥ ४८७ ॥ यद्यपीति । यद्यपि चन्दनशाखी देवेन ब्रह्मणा वा फलपुष्परहितः कृतस्त. यापि खशरीरमात्रेणान्येषां संतापं दूरं करोति । एवं चेतादृशो न कश्चिदन्य इति वन्यते । अत्र पूर्वत्र च यद्यपिरपीति पदातिरिकपददानमुचितमित्याभाति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता यकारव्रज्या।
रकारव्रज्या। नायकगुणोत्कर्षेण नायिकाया अत्यन्तमुत्कर्ष इति काचित्कांचिद्वक्ति
राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य ।
गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥ ४८८ ॥ राज्येति । राज्याभिषेकजलक्षालितमस्तकस्य कृष्णस्य वार्तासु सकलोत्कृष्टगुणवानित्यादिकासु । सतीग्विति शेषः । गर्वाधिकतानिश्चलनेत्रा राधा चरणकमलम् । खीयमिति भावः । पश्यति । एतादृशोऽप्ययं सर्वदा मत्प्रणविप्रवण एवास्त इति वियेति भावः ॥