________________
काव्यमाला।
तव वसपरिवर्तनकारी एष पवनो न विरमति । एवं च जघनाद्याच्छादनाद्यनर्थकम् । अतस्तत्त्यक्त्वा यथेच्छमनेन सह रमखेति ध्वन्यते । “विधुरे' इति पाठे रहिते इत्यर्थः । यथाश्रुतमेवेदमिति ऋजवः ।। अपकारकाणामपि सति समये शरणमयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति
यद्यपि बद्धः शैलैयद्यपि गिरिमथनमुषितसर्वखः।
तदपि परमीतभूधररक्षायां दीक्षितो जलधिः ॥ १८२ ।। यद्यपीति । यद्यपि पर्वतैर्बद्धः । यद्यपि पर्वतकरणकमन्थनेनापहृतसर्वखः । तथापि पर इन्द्रस्ततो भीता ये पर्वतास्तद्रक्षणे जलधिदीक्षितः । कृतनियम इत्यर्थः । जलधिरित्यनेन निकटवर्तिसमीचीनाभावेऽपि खत एवैतादृशाचरणकारितयातिमहत्तरत्वमावेद्यते । अत्रानवीकरणमनुचितमित्याभाति ॥
यत्र यादृशेन तेन त्वं दृष्टासि तत्र तादृशेनैव तेनाद्यापि स्थीयत इति दूती नायिका वकि
यस्यां दिशि यस्य तरोर्यामेत्य शिखां यथोन्नतग्रीवम् ।
दृष्टा सुधांशुलेखा निशां चकोरस्तथा नयति ॥ १८३ ।। यस्यामिति । यस्यां दिशि यस्य वृक्षस्य यां शिखामागत्योन्नतप्रीवं यथा चन्द्रलेखा दृष्टय तथा तेनैव प्रकारेण चकोरो निशामतिवाहयति । सुधांशुलेखेसनेनाहादकत्वमावेद्यते । चकोर इत्यनेन तदेकाधीनजीवनवत्त्वं द्योत्यते । एवं चैतादृशस्यासोपेक्षाकरणमनुचितं तवेति ध्वन्यते ॥ सरलतया न स्थेयमिति कश्चित्कंचिद्वक्ति
यत्रार्जवेन लघुता गरिमाणं यत्र वक्रता तनुते ।
छन्दःशास्त्र इवासिंल्लोके सरलः सखे किमसि ॥ ४८१ ॥ योति । यत्र यस्मिन्नार्जवेन सरलतया लघिमा लाघवं तन्यते । यत्र वक्रता गुरुत्वं तनुते । छन्दःशास्त्र इवासिंल्लोके हे सखे, सरलः किमसि । छन्दःशाने लघुलेखाकारो गुरुर्वक्राकारो लिख्यत इति संप्रदायः ॥ कश्चित्कस्यचिदधिकारपदं निन्दति
यनोपकारकं यत्न भूषणं यत्प्रकोपमातनुते ।
गुरुणापि तेन कार्य पदेन किं लीपदेनेव ॥ ४८५ ॥ यति । यहुपकारकारकं न । यद्भूषणं न । यत्कृष्टकोपं विस्तारयति । गुरु