Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
अनुरागेण व्यक्तीकृतः । एवं चातिनिगूढनिजकार्यसाधकतयानया सदृशी न काप्यन्येति ध्वन्यते । यत्र भावे दूती न प्रकटनसमर्थेति भावः । यत्र निहिताः प्रेरिताः प्रेमार्दा दशोऽपि न । स्निग्धा वाचोऽपि न प्राकट्यसंपादिका इति भावः । स भावो रसानुकूलविकारो निपुणया। समयज्ञत्वादिति भावः । प्रीत्या प्रकटीकृतः। एवं च योऽनुभावो मत्प्रेषितदूतीप्रेषणादिव्यापारैर्न प्रकटीकृतः, स भावोऽद्य खयं समयविशेषमासाद्य व्यकीकृत इति लोकोत्तरचातुर्यशालित्वमावेद्यत इति वार्थः । 'स भावोऽनुगमनेन' इति पाठे तन्मरणोत्तरं तत्प्राणपरित्यागेनेयमसिनासकेति ज्ञातमित्यर्थः । क्वचित् ‘स जारोऽनुमरणेन' इति पाठः ॥ सपत्न्यधीनत्वादिकमसम्यगिति काचित्कांचिद्वक्ति
या नीयते सपल्या प्रविश्य यावर्जिता भुजंगेन ।
यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ।। ४६३ ॥ या नीयत इति । सपनया पतिप्रियान्तरया । पक्षे गगया। नीयते । पतिसविध इति भावः । पक्षे समुद्रसविधे । भुजंगेन । पक्षे सर्पण । प्रविश्य यावर्जिता खाधीनीकृता । यमुनाया इव तस्या जीवनं जीवितम् । पक्षे जलम् । सखि, मलिनं निन्द्यम् । पक्षे श्यामम् । मन्ये । एवं चैतादृशतया स्थेयं नायिकया येनोपायेन गृहे सर्वाधिकतयावस्थानं भवतीति वन्यते । यमुनाजलं श्याममिति कविसंप्रदायः॥
दूती नायिका केनचिन्नायकेन सह संगमयितुं वक्ति- यस्मिन्नयशोऽपि यशो हीर्विनो मान एव दौःशील्यम् ।
'लघुता गुणज्ञता किं नवो युवा सखि न ते दुष्टः ॥ ४६४ ।। यस्मिन्निति । यस्मिन्यद्विषये तेऽकीर्तिरपि कीर्तिः । लज्जा विघ्नः । मानकरणमेव दुःशीलता । एवकारेण तत्कार्यविरुद्धवचनादेः का वार्तेति भावः । लघवं गुणप्रवणता । एतादृशो नूतनः । एवं चावश्यकग्राह्यदर्शनयोग्यत्वं व्यज्यते । तरुणः। एवं च स्पृहणीयत्वमावेद्यते । हे सखि । एवं च हितकथनार्हवं द्योत्सते । किन दृष्टः । त्वयेति शेषः । एवं चैतादृशो गुणरूपयौवनादिसंपनो नान्योऽस्ति नायकः । अत एतद्दर्शनाय त्वरस्वेति ध्वन्यते । अथवा त्वत्संबन्धी युवास्माभिः किं न दृष्टः । अपि तु दृष्टः । एवं च सम्यक्त्वया संपादितं यदेतादृश आसक्तिः संपादिवेति ध्वन्यते । इति सखीवाक्यम् ॥ .

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284