Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 196
________________ १९२ काव्यमान। भावेन पाथेयार्थ सर्वखदानेन चानया चेतो नायकस्य दारुणशहामन्यथासंभावनां प्रापितमिति भावः॥ नायको नायिका वत्ति यूनामीावैरं वितन्वता तरुणि चक्ररुचिरेण । तव जघनेनाकुलिता निखिला पल्ली खलेनेव ॥ ४६८॥ यूनामिति । हे तरुणि, तरुणानामीावरम् । एकामिषत्वादित्युभवत्र भावः। विस्तारयता । चक्रवत्सुन्दरेण । वर्तुलत्वादिति भावः । खलेनेव धान्यमर्दनस्थानेनेव तव जघनेन समग्रा पल्ली व्याकुलीकृता । एवं च सर्वेऽपि त्वय्यासकाः संजाता इति भावः । खलेनेव दुष्टेनेवेति व्याख्याकरणे चक्र समुदायस्तेन रुचिर इत्यर्थः ॥ कयोश्चिदत्यन्तमैत्रीं दृष्ट्वा कश्चिद्वति यावजीवनभावी तुल्याशययोनितान्तनिर्भेदः । नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥ ४६९ ॥ यावदिति । यावदायुःस्थितिशाली । पक्षे यावदुदकस्थितिर्भावी । अत्यन्तनितमेदः तुल्यान्तःकरणयोः । पक्षे समानगम्भीरताशालिनोः। तरुणयोर्नदयोरिव सङ्गः संगतिः। मैत्रीति यावत् । पक्षे संबन्धः। अधिकं रसं प्रीतिम् । पक्षे जलम् । आवतु । एवं चैतादृश्येवेयमेतयोमैत्री उत्तरोत्तरवृद्धिशालिन्यस्त्विति ध्वन्यते ॥ नायकः सखायं वकि यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति । प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥ ४७० ॥ यदिति । यया निहितां दत्तां मालां शेखरयसि शिरोभूषणत्वेन कुरुषे सा हे शठ, भवन्तं यात्विति । उक्त्वेति शेषः । मस्तके चरणेन प्रहरन्तीम् । अभिमानबहुतरं कोपवतीम् । स्मरामि । एवं च तत्कालकृतताडनेन कोपपरिमार्जनेन सुरतानन्ददायितया न तत्तुल्यान्येति तस्यामेव ममासक्तिरिति ध्वन्यते ॥ कश्चित्कंचिद्वक्ति यौवनगुलिं पत्यो बन्धुषु मुग्धत्वमार्जवं गुरुषु । कुर्वाणा हलिकवधः प्रशस्यते व्याजतो युवमिः ॥ ४७१ ॥ यौवनेति।पयो नायके तारुण्यगोपनं कुर्वाणा। इदमध्येप्यन्वेति । रक्षणकर्व

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284