________________
१९२
काव्यमान।
भावेन पाथेयार्थ सर्वखदानेन चानया चेतो नायकस्य दारुणशहामन्यथासंभावनां प्रापितमिति भावः॥ नायको नायिका वत्ति
यूनामीावैरं वितन्वता तरुणि चक्ररुचिरेण ।
तव जघनेनाकुलिता निखिला पल्ली खलेनेव ॥ ४६८॥ यूनामिति । हे तरुणि, तरुणानामीावरम् । एकामिषत्वादित्युभवत्र भावः। विस्तारयता । चक्रवत्सुन्दरेण । वर्तुलत्वादिति भावः । खलेनेव धान्यमर्दनस्थानेनेव तव जघनेन समग्रा पल्ली व्याकुलीकृता । एवं च सर्वेऽपि त्वय्यासकाः संजाता इति भावः । खलेनेव दुष्टेनेवेति व्याख्याकरणे चक्र समुदायस्तेन रुचिर इत्यर्थः ॥ कयोश्चिदत्यन्तमैत्रीं दृष्ट्वा कश्चिद्वति
यावजीवनभावी तुल्याशययोनितान्तनिर्भेदः ।
नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥ ४६९ ॥ यावदिति । यावदायुःस्थितिशाली । पक्षे यावदुदकस्थितिर्भावी । अत्यन्तनितमेदः तुल्यान्तःकरणयोः । पक्षे समानगम्भीरताशालिनोः। तरुणयोर्नदयोरिव सङ्गः संगतिः। मैत्रीति यावत् । पक्षे संबन्धः। अधिकं रसं प्रीतिम् । पक्षे जलम् । आवतु । एवं चैतादृश्येवेयमेतयोमैत्री उत्तरोत्तरवृद्धिशालिन्यस्त्विति ध्वन्यते ॥ नायकः सखायं वकि
यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति ।
प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥ ४७० ॥ यदिति । यया निहितां दत्तां मालां शेखरयसि शिरोभूषणत्वेन कुरुषे सा हे शठ, भवन्तं यात्विति । उक्त्वेति शेषः । मस्तके चरणेन प्रहरन्तीम् । अभिमानबहुतरं कोपवतीम् । स्मरामि । एवं च तत्कालकृतताडनेन कोपपरिमार्जनेन सुरतानन्ददायितया न तत्तुल्यान्येति तस्यामेव ममासक्तिरिति ध्वन्यते ॥ कश्चित्कंचिद्वक्ति
यौवनगुलिं पत्यो बन्धुषु मुग्धत्वमार्जवं गुरुषु ।
कुर्वाणा हलिकवधः प्रशस्यते व्याजतो युवमिः ॥ ४७१ ॥ यौवनेति।पयो नायके तारुण्यगोपनं कुर्वाणा। इदमध्येप्यन्वेति । रक्षणकर्व