________________
आर्यासप्तशती ।
खळानां माहात्म्यदर्शनेनापि न विश्वासो विधेय इति कचिद्वतियद्वीक्ष्यते खलानां माहात्म्यं कापि दैवयोगेन । काकानामिव शौक्लयं तदपि हि नचिरादनर्थाय ॥ ४६५ ॥
१९१
यदिति । दृष्टवशात्कचिद्दुष्टानां यन्महत्त्वं दृश्यते तदपि काकानां शौक्लचमिव नचिराच्छीघ्रमनर्थाय । एवं च दुष्टखभावानामदुष्टखभावप्रदर्शनमकार्योद्देशेनैवेति व्यज्यते ॥
I
खला एव प्रेमविघटितार इति काचित्कांचिद्वक्ति
यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति । तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम ॥ ४६६ ॥
यदिति । यत्खलवदनरूपो यो वहिस्तत्र क्षिप्तमपि शुद्धिमेव । एवकारेण विनाशव्यवच्छेदः । एति प्राप्नोति । तत्परमुत्कृष्टं प्रेम । अनले शौचं शुद्धिर्यस्यैतादृशवसनमिव खलु निश्चितमिह लोके दुर्लभम् । एवं च को वेद स्वर्गादौ भवि - ष्यति न वेति ध्वन्यते । एवं च यथा वसनस्यानलप्रक्षेपणे विनाश एव, तथा खलविज्ञातप्रेम्णोऽवश्यं विनाश एवेति ध्वन्यते । तेन च यथा खलैर्न विज्ञेयमेतत्प्रेम तथा कुर्विति । अथवा यत्खलैरपि विघटयितुमशक्यं तदेव प्रेम सम्यगिति काचिद्वति । वह्नेरनलशौचं वस्त्रद्वयमस्तीति पुराणप्रसिद्धिः । अथवा यत्खलैरपि सम्यगिदमुभयोः प्रेमेत्युच्यते तदेव निश्चयेन परमुत्कृष्टम् । अत एव दुर्लभम् । एवं च तथाविधेनैव सह प्रीतिर्विधेया या खलैरपि स्तूयते, न तु साधारणेन सहेति ध्वन्यते । इति काचित्कांचित्प्रति वक्तीत्यर्थः । अत्र स्खल्विति दुर्लभमित्यस्म संनिधावुचितम् । 'शुद्धमेव' इति पाठ एति निर्गच्छतीत्यर्थः ॥
नायकः सखायं वक्ति
यन्नावधिमर्थयते पाथेयार्थ ददाति सर्वखम् । तेनानयातिदारुणशक्कामारोपितं चेतः ॥ ४६७ ॥
यदिति । येनेयमवधिं कदा समागन्तव्यमिति नार्थयते । न वदतीत्यर्थः । मार्गव्ययार्थं सर्वखं' यच्छति । तेनानया महत्तराशङ्कां चित्तं प्रापितम् । एवं चावधेरप्रार्थनेन व्ययाय सर्वखदानेन चेयं मद्गमनोत्तरमवश्यं प्राणांस्त्यक्ष्यतीति भावः । एवं च न मया प्रस्थीयत इति ध्वन्यते । यद्वा कश्चित्कंचिद्वति अवधिप्रार्थना