________________
૮૬
'काव्यमाला ।
श्रेष्ठानपि । एवं चैतद्रक्षणे क्लेशवत्त्वेऽपि न तं महान्तः परिगणयन्तीति द्योत्यते । पक्षे महापरिमाणान् । एवं च गोपने क्लेशवत्ता ध्वन्यते । दधति स्थापयन्ति । लघवो नीचाः । पक्षे खल्पपरिमाणशालिनः । अल्पमपि । एवं च संरक्षणे सुकरत्वमावेद्यते । न दधति । अर्थान्तरन्यासेनामुमेवार्थ द्रढयति — समुद्रोऽद्रीन्गोपयति । अद्रीनित्यनेन खदुःखदमन्दरसजातीयतया द्वेषवत्त्वेऽपि, इन्द्ररूपशत्रुसत्त्वेन भीतिकरणौचित्येऽपि च तदगणनेन महत्तरत्वमावेद्यते । निदाघकालीननद्यो मण्डूकमपि न गोपयन्ति । मेकपदेन खजीवनाधीनजीवनतया तथाविधशत्रुशून्यतया च रक्षणौचित्यमावेद्यते । एवं च महान्तएव महत्तरशत्रुमवधूयापि शरणागतं पालयन्ति न क्षुद्रा इति ध्वन्यते ॥
आरब्धमानां नायिकां नायको वक्ति
मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखमङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥ ४५२ ॥
मध्विति । हे मानिनि । एवं च रूक्षत्वादिकरणौचित्यमावेद्यते । माक्षिकधारेव रूक्षापि स्नेहाभाववत्यपि खाभाविकीं माधुरीं न त्यजसि । सहजामित्यनेन तत्परित्यागस्य कर्तुमशक्यत्वमावेद्यते । वत्रीकृतवदनापि त्वं जलधेर्नदीव मम रसं प्रीतिम् । पक्षे जलम् । प्रयच्छसि । मानश्चायं लघुः ॥
वीणावादनकारिणीं नायिकां सुरतोत्कण्ठितो नायकस्तन्निरसनाय वक्ति— मदनाकृष्टधनुर्ज्याघातैरेव गृहिणि पथिकतरुणानाम् । वीणात श्रीकाणैः केषां न विकम्पते चेतः ॥ ४५३ ॥
I
मदनेति । हे गृहिणि । एवं च दयावत्त्वौचित्यमावेद्यते । मन्मथाकृष्टचापज्याघातैरिव वीणातश्रीशब्दैः केषां पथिकतरुणानां चेतो न विकम्पते । अपि तु सर्वेषाम् । एवं चैतादृशत्वदीयवीणावादनश्रवणेन पथिकप्राणाः प्रयास्यन्ति, अतो विरम वीणावादनादिति द्योत्यते । 'न विकल्पते' इति पाठे जीवनं भविष्यति न चेति संदेहवद्भवतीत्यर्थः ॥
नायकः सखायं वक्ति
मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् । जातं 'क चाम्तरिक्षे स्मितसंवृतिनमितघरयोः ॥ ४५१ ॥ अमेति । क चान्तरिक्षे कचिन्मार्गमध्ये स्मितगोपनार्थ नमितजीवयोः । राम