________________
आर्यासप्तशती।
वं तथा कुरु यथायं मम च्छायायाः प्रणिपातादिना मामनुयातीति वन्यते। कचित् 'मापरुषम्' इति पाठः । नायिका चेयं परकीया ॥ कश्चित्सखायं वति
मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्कामे ।
दास इव श्रमसमये भजन्नताङ्गी न तृप्यामि ॥ ४१८ ॥ मुषित इति । क्षणमात्रसंजातविरहे मुषित इवाविद्यमान इव । मन्मथकलायुद्ध शत्रुरिव । श्रमकाले सेवक इव नताशी भजन तृप्यामि । विरहासहिष्णुत्वप्रचण्डरतकलाशालित्वतदाज्ञानुवर्तित्वानि क्रमेण मुषित इवेत्यादित्रयेण व्यज्यन्ते। एवं चैतादृशी नायिका नान्येति ध्वन्यते ॥ ___ अनुनयानेकप्रकारकरणेऽप्यधिककोपशालिनी नायिकामवलोक्यानुनयनिर्विष्णहृदयं नायकं सखी समुपदिशति
मुञ्चसि किं मानवती व्यवसायाद्विगुणमन्युवेगेति ।
नेहमवः पयसामिः सान्त्वेन च रोष उन्मिपति ॥ १४९ ॥ मुञ्चसीति । व्यवसायात्सान्त्वनप्रकाराद्विगुणकोपवेगेति हेतोर्मानवतीं मुञ्चसि, इदं किम् । नोचितमिति भावः । अत्रोपष्टम्भकमाह-स्नेहभवः प्रीतिजन्यः। पक्षे तैलजन्यः । कोपोऽनुनयेन, अमिर्जलेनोन्मिषति । अधिको भवतीत्यर्थः । एवं चैतस्याः कोपः प्रीतिपूर्वक एव, अतो त्वमेतस्याः समाधानाद्विरमेति ध्वन्यते ॥ इतरसंतापात्कामसंताप एवाधिक इति कश्चित्कंचिद्वक्ति
मलयजमपसार्य घनं वीजनविघ्नं विधाय बाहुभ्याम् ।
सरसंतापादगणितनिदाघमालिङ्गते मिथुनम् ॥ १५० ॥ मलयजमिति । भुजाभ्यां चन्दनं दूरीकृत्य, घनमत्यन्तं वीजनस्य विनं विधाय, मदनसंतापवशादनाहतधर्मकालीननिदाघम्, स्त्रीपुंसद्वन्द्वमालिङ्गते । 'बिहाय' इति पाठे वीजनामिनं विघ्नमित्यर्थः । निदाघकालीनसंतापदुःखमगणयित्वा सद्यः प्रयाहि दयितासविधे इति द्योत्सते ॥ कश्चित्कंचिच्छरणागतस्तेन चारक्षितस्तं वक्ति
महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः ।
संवणुतेन्द्रीनुदधिनिदाघनयो न मेकमपि ॥ ४५१ ॥ मात इति । महाशयाः श्रेष्ठा आपले ममीराः । विश्वासाद्विनिश्चितं महतोऽपि