________________
काव्यमाला।
कचित् 'नायक किमर्थमवगणयसि' इति वादिनी सखी वकि
महति खेहे निहितः कुसुमं बहु दत्तमर्चितो बहुशः ।
वक्रतदपि शनैश्चर इव सखि दुष्टाहो दयितः ॥ ११५ ॥ महतीति । यद्यपि महति बहुतरे स्नेहे प्रेम्णि । पक्षे तैले । निहितः । तस्मिन्प्रेम बहुतरं संपादितमिति भावः । पक्षे लोहमयी शनैश्चरप्रतिमा बहुतरतैले स्थाप्यत इति भावः । कुसुमम् । एकत्वमविवक्षितम् । बहुवार दत्तम् । यद्वा बहु कुसुममित्यन्वयः । बहुप्रकारं पूजितस्तदपि दुष्टो ग्रह आग्रहो यस्य । पक्षे दुष्टश्वासौ ग्रहश्चेति विग्रहः । वक्रः ऋजुर्न । पक्षे वक्रोऽन्यराशिस्थितोऽन्यराशिसंघरपवान् । शनैश्चर इव । एवं चैतादृशशनेः पूजादिनापि नानुकूल्यं यथा तयार नायकस्य । अतो न ममापराध इति ध्वन्यते ॥ कांचिनीचजनसेवितां यौवनगर्वितां काचिदन्योक्त्या वक्ति
मा शबरतरुणि पीवरवक्षोरुहयोर्मरेण भज गर्वम् । निर्मोकैरपि शोभा ययोर्भुजंगीमिरुन्मुक्तैः ॥ ४४६ ॥ मा शबरेति । शबरस्य तरुणि । एवं च खतो गुणाभावेऽपि नायकस्यापि निर्गुणतया तत्संगतिलभ्यगुणवत्ताभावो व्यज्यते । मांसलतनयोर्भरेण गर्व मा भज । भुजंगीभिरुरगीभिरय च वेश्याभिः परित्यक्तरपि । एवं चानादरो द्योत्यते। निर्मोकैर्ययोः शोभा । एवं च कदर्यजनसेवितत्वेन न त्वया गर्वः कार्य इति व्यज्यते ॥ 'कथं त्वया मानः परित्यक्तः' इति वादिनी सखी नायिका वक्ति
मम कुपितायाश्छायां भूमावालिजय सखि मिलपुलकः ।
खेहमयत्वमनुज्झन्करोति किं नैष मामरुषम् ॥ १४७ ॥ ममेति । हे सखि, कोपवत्या मम च्छायां भूमावालिन्य संजातरीमाधः । प्रीतिप्रचुरत्वमपरित्यजन्मेष मां क्रोधरहिता किं न करोति । अपि तु करोति । एवं चैतादृशैतवृत्तमवलोक्य मानः परित्यको मयेति व्यज्यते । यद्वा शिथिलितकोपा नायिका सखीं वधि कुपिताया मम च्छायाँ भूमावालित्य संजातरोमाघः प्रीतिप्रचुरत्वमपरित्यजन्मामपगतरोषां हे सखि, किं न करोति, किं न करिष्यतीति प्रमः । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यामि ला। एवं व हे सखि,