________________
आर्थासप्तशती।
१८३ एवं चैतादृशवदनचुम्बनादप्यधरपानमधिकमिति व्यज्यते । यद्वा मधुगन्धादिगुणयुक्तमाननमवधूय कम्पयित्वा । स्थिताया इति शेषः। तस्या अधरामृतं पास्यामीति योजना । पथिकाशंसनमेतत् ॥ काचित्कांचिद्वक्ति
मेदिन्यां तव निपतति न पदं बहुवल्लमेति गर्वेण ।
आश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्कासि ॥ ४४३ ॥ मेदिन्यामिति । अहं बहूनां वल्लमेति गर्वेण तव पदं भूमौ न निपतति । कैतरुणैरालिङ्गय वस्त्रैस्तुरीव न विमुक्तासि । उपसर्गेण पुनः कदापि न संबन्ध इत्यावेद्यते । उत्तरोत्तरनायकवल्लभात्वे पूर्वपूर्वनायकवल्लभात्वाभावस्य हेतुतया तस्य च गुणशून्यत्वज्ञानाधीनतया न तवानेकवल्लभात्वेन गर्वकरणमुचितम्, अपि तु यस्यामेव कलाकलापाकृष्टो नायको निमनमानसखस्या एव गर्वकरणमुचितमिति ध्वन्यते ॥ परपुरुषेष्वभिरतिमुत्पादयितुं दूती नायिका वक्ति
मूले निसर्गमधुरं समर्पयन्तो रसं पुरो विरसाः ।
इक्षव इव परपुरुषा विविधेषु रसेषु विनिघेयाः ॥ १४॥ मूल इति । मूले । आनन्दनिदाने रहसीति यावत् । पक्षे यथाश्रुतम् । खभावमधुरम् । एवं चौपाधिकमधुररसदातारोऽन्य इति भावः । रसं रत्यादिकम् । पक्ष इक्षुविकारम् । सम्यगपर्यन्तः । एवं चान्यत्र समर्पणेऽपि न सामीचीन्यमिति भावः । एवं च परपुरुषातिरिक्तपुरुषाणां रतं न खतो मधुरम्, न वा ते तत्कलासु कुशला इत्यावेद्यते । पुरो जनसमक्षम् । पक्षेऽप्रभागे । विरसाः । लोकमीतेरिति भावः । एवं च लोकवञ्चनानिपुणत्वेनातिविज्ञत्वमावेद्यते । परपुरुषा इक्षव इवानेकरसेषु विविधरतादौ । पझेऽनेकविधमधुरप्रकारादौ । विशेषेण स्थाप्याः । एवं च परपुरुषेष्वभिरुचिरतितरामुचितेति ध्वन्यते। यद्वा काचित्परपुरुषाभिरति निन्दति । विविधरसेषु स्थापयितुं योग्याः परपुरुषा इक्षव इव मूले प्रथमतः खभावेन मधुरं रसं प्रीत्यादि समर्पयन्तोऽप्रे विरसा भवन्ति । एवं च 'प्राशास्तत्कर्म कुर्वन्ति, येनान्ते सुखमेधते' इत्युकत्वात्प्रान्ते परपुरुषसंगतेरनिवार्यदुःखदत्वेन तत्करणमा नुवितमिति घोत्यते । यद्वा प्रथमतः सरसाः पश्चानीरसाः परपुरुषा विविधरसेषु विनिषेया इति काका नेत्यर्थः। ,