________________
१८२
काव्यमाला। मोहः प्रीतिर्धमश्च हे सखे, नापगच्छति । एवं च यथा संजातदिग्भ्रमस्य न केनापि निवृत्तिः कर्तु शक्या, तथतस्यां ममोत्पन्नानुरागस्य । अतस्त्वदुपदेशोऽनर्थकः । अत एतत्करणाद्विरमेति ध्वन्यते ॥ पराङ्गनातिलम्पटतयापकीा खजनपरित्यकं कंचन कश्चिदन्योक्त्या वति
ममोऽसि नर्मदाया रसे हृतो वीचिलोचनक्षेपैः ।
यधुच्यसे तरुवर भ्रष्टो अंशोऽपि ते श्लाघ्यः ॥ ४१०॥ मनोऽसीति । हे तरुश्रेष्ठ। एवं च नीचस्यैतादृशाचरणे न किंचिदसम्यगिति धन्यते । नर्मदाया नद्याः। नर्म ददातीति व्युत्पत्त्या कलाकलापवत्त्वमावेद्यते नायिकायाम् । तरङ्गरूपकटाक्षः, अथ च वीचीतुल्या ये लोचनक्षेपास्तैर्हतो रसे जले क्षारादौ च ममोऽसि । एवं चानन्दनिमममानसतया लोकनिन्दाज्ञानवैधुर्यमावेद्यते । भ्रष्ट इति याच्यसे । लोकरित्यर्थः । अत्र कनुपादानेन सर्वेऽपि त्वां निन्दन्तीति व्यञनेन न न्यूनपदत्वमाशङ्कनीयम् । तर्हि ते भ्रंशोऽपि श्लाघार्हः । नायिकाया लोकोत्तरसौन्दर्यादिगुणशालितयेति भावः । एवं चैतादृशं निन्धकर्मापि चेत्कर्तव्यं तस्येतादृशनायिकया सहेति ध्वन्यते ॥ पाणिग्रहणसमयसंजातसात्त्विकभावोदयं कंचन कश्चिद्वक्ति
मेनामुल्लासयति मेरयति हरि गिरि च विमुखयति ।
कृतकरबन्धविलम्बः परिणयने गिरिशकरकम्पः ॥ ४११ ॥ मेनामिति । विवाहकाले संपादितपाणिग्रहणविलम्बो गिरिशस्य हस्तकम्पो मेनां पार्वतीमातरमुल्लासयति स्मेत्यर्थः । एवमुत्तरत्र । कामोदितजामातृलाभादिति भावः । विष्णुं स्मेरयति । असन्तप्रकटितवैराग्यस्याप्यस्यैतादृश्यवस्थेति कुतुकादिति मावः । हिमालयं च विमुखयति । लब्बावशादित्यर्थः । एवं चैतादृश्यवस्थावश्यं महतामपि भवतीति न त्वया कापि लज्जा विधेयेति धन्यते ॥
मधुगन्धि धर्मतिम्यत्तिलकं स्खलदुक्ति घूर्णदरुणाक्षम् । ।
वस्थाः कदाधरामृतमाननमवध्य पास्यामि ॥ ११२॥ मचिति । मगन्धवत् , प्रखेदाईतिलकम् , स्खलढुकि । सोन्मादत्वादिति मावः । पूर्णवरुणनयनम्, तस्या बुद्धिस्थनायिकाया मुखमवधूय तिरस्कृत्य । बजुम्बयित्वेति भावः । अधरामृतम् । उत्तरोष्ठपाननिषादिति भावः । पास्यामि।