________________
आर्यासप्तशती ।
ફર્મ
कश्चित्कांचिद्वक्ति
मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो रागाः ।
हन्त हरन्ति मनो मम नलिकाविशिखाः स्मरस्येव ॥ ४३७ ॥ मध्विति । श्रीकृष्णवदनविनिहिता या वंशी तद्रन्ध्रानुसारिणः शब्दा मदनस्य नलिकाबाणा इव मम मनः । हन्त खेदे । हरन्ति । एवं च वेणुध्वनिं श्रुत्वावस्था न शक्यते, अतो द्रुतं प्रयाहीति ध्वन्यते ॥
कयोश्चिन्मित्रयोरन्यतरं संगमयितुं दूती नायिकां वक्ति
महतोः सुवृत्तयोः सखि हृदयग्रहयोग्ययोः समुच्छ्रितयोः । सज्जनयोः स्वनयोरिव निरन्तरं संगतं भवति ॥ ४३८ ॥
1
महतोरिति । श्रेष्ठयोः । एवं च परच्छिद्रप्रेक्षणानर्हत्वं ध्वन्यते । पक्षे महापरिमाणशालिनोः । समीचीनाचरणयोः । एवं च लौकिकदुष्टशङ्काशून्यत्वमावेद्यते । पक्षे समीचीनवर्तुलयोः । हे सखि, हृदयप्रयोग्ययोः चित्ते स्थापयितुं योग्ययोः । एवं चातिप्रियत्वमावेद्यते । यद्वालिङ्गनयोग्ययोरित्यर्थः । पक्षे वक्षः स्थितिशालिनोः । समुच्छ्रितयोः। एवं च नवीनयौवन भाग्योदयादिशालित्वं द्योत्यते । पक्षे नवीनोदयवत्त्वम् । सज्जनयोः स्तनयोरिव संगतं निरन्तरं भवति । एवं चोभयोरपि समानगुणशीलतया न्यूनाधिकभावविरहेणोभयोर्मध्ये यं प्रत्यनुरागः स एवानुगृयतामिति ध्वन्यते । यद्वा कयोश्चित्सहचरयोर्मध्येऽन्यतरभीत्यान्यतरावलोकनमसम्यगिति मन्वानां नायिकां दूती वक्ति - एतयोरतितरां धीमत्त्वेन परस्परानन्दसंवर्धकंतया नान्यतराशङ्का त्वया विधेयेत्यावेद्यते । स्तनयोरिवेत्यनेनैतत्संगतिविघटनमसंभवीति ध्वन्यते । कथमेतयोरतितरां संगतिरिति वादिनीं कांचित्काचिद्वति । समानंगुणशीलत्वादिति भाव इति वा । अथवा समानगुणशीलादिशालिनोः साहजिकी संगतिरिति कांचित्काचिद्वति ॥
कश्चित् 'एतादृशं नाचरणीयम्' इत्युपदेशकर्तारं सखायं वक्ति
मम वारितस्य बहुभिर्भूयो भूयः खयं च माक्यतः । जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥ ४३९ ॥
ममेति । बहुभिः । विवेकिभिरिति भावः । सुहृद्भिरिति वा । निवारितस्यै । नैवं विधेयमिति भावः । खयं च मुहुर्मुहुर्विचारयतो मम दिज्ञीक तस्यां 'खासी