________________
१८०
काव्यमारा ।
वसन्तसमयेषूद्दीपनोद्रेकात्तूष्णीमवस्थातुं न शक्यत इति काचित्कांचिद्वतिमधुदिवसेषु भ्राम्यन्यथा यथा विशति मानसं भ्रमरः । सखि लोहकण्टकनिभस्तथा तथा मदनविशिखोऽपि ॥ ४३४ ॥ “मध्विति । हे सखि, वसन्तसमयेषु भ्राम्यन्सन् । मधुपदेन दुष्परिहरत्वं ! ध्वन्यते । यथा यथा चित्तं लोहकण्टकसदृशो भ्रमरो विशति तथा तथा मदनबाणोऽपि । एवं च केनचित्सह मां योजयेति ध्वन्यते । यद्वेतस्ततो मदर्थमेव परिभ्रमन्भ्रमर इव भ्रमरः । सारग्राहकत्वेनातिचतुरत्वादिति भावः । नायको यथा यथा मनसि समायाति तथा तथा लोहकण्टकसदृशः । एवं च व्यथकत्वम् । मदनबाणोऽपि हृदयं प्रविशति । एवं चैतद्दर्शनेनाहं मदनशरविद्धा तद्योगं विनाबस्थातुं न शक्नोमीति तेन सह मां योजयेति ध्वन्यते ॥
नायको नायिकां वक्ति
मयि चलिते तव मुक्ता दृशः खभावात्प्रिये सपानीयाः । सत्यममूल्याः सद्यः प्रयान्ति मम हृदयहारत्वम् || ४३५ ॥
मीति । हे प्रिये, मग्रि प्रस्थिते मुक्ताः परित्यक्ताः । पक्षे मुक्ताफलानि । स्वभावात्स्त्रीखभावात् । पक्षे साहसिकतया । सपानीया अश्रुजलवत्यः । पक्षे तेजोविशेषशालिन्यः । अमूल्या उत्कृष्टाः । पक्षे बहुतरद्रव्यलभ्याः । दृष्टयो मम हृदयस्य चेतसः । पक्षे वक्षसः । हारत्वमपहारकत्वम् । पक्षे हारभावं प्रयान्ति । इदं सत्यम् । एवं चैतादृशत्वद्विलोकनेनाहं गमनपरासुखः संवृत्तोऽस्मीति व्यज्यते ॥ अहमत्यन्तमदनबाधाक्रान्तः संवृत्त इति कश्चित्कांचिदाह—
I
मुग्धे मम मनसि शराः स्मरस्य पञ्चापि संततं लमाः । शके स्तनगुटिकाद्वयमर्पितमेतेन तव हृदये ॥ ४३६ ॥
मुग्ध इति । हे मुग्धे, स्मरस्य पञ्चापि बाणाः । अपिनान्यसत्त्वाभावो व्यज्यते । मम्र मनसि निरन्तरम् । एवं च सर्वमपि मनो विद्धमिति भावः । लग्नाः, न तु निर्गताः । अत एतेन मदनेन तब हृदये स्तनरूपगुटिकाद्वयमर्पितमिल्यहं संभावयामि । शराभावादिति भावः । एवं च गुटिका वेदनायाः खल्पतया धैर्यम्, मयि नेति ध्वन्यते ॥