________________
आर्यासप्तशती ।
K
शीतकालप्राप्तानाम् । चन्दनसाराणामिव धीराणां गुणानां पाण्डित्यादीनाम् । पक्षे यौगन्ध्यादीनाम् । आधिक्यमपि । अपिरनादरानर्हत्वं गमयति । अनादरायैव न गाय । एवं च समीचीनस्याप्यसमीचीनाचारप्रविष्टस्य गुणाद्यपि निन्दाकरमेवे - यतस्त्वया नैवमाचरितव्यमिति व्यज्यते ॥
1
कस्याश्चिन्नायिकायाः साम्यं खस्मिन्कुर्वाणां कांचित्काचिदन्योक्त्या वक्तिमधुमथनमौलिमाले सखि तुलयसि तुलसि किं मुधा राधाम् । यत्तव पदमदसीयं सुरभयितुं सौरभोद्भेदः ॥ ४३१ ॥
मध्विति । मधुमथनस्य श्रीकृष्णस्य मौलिसंबन्धशालिनि माले सखि । एवं व यथार्थवादार्हत्वं ध्वन्यते । राधां वृथा किमिति तुलयसि स्वसमानां मन्यसे । यद्यस्मात्तव परिमलोद्रेकोऽदसीयं पदं राधासंबन्धिचरणं सुरभीकर्तुम् । श्रीकृष्णेन सर्वदा राधाचरणप्रणामकरणादिति भावः । एवं यथा तस्यां गौरवम्, न तथा त्वयीति ध्वन्यते । सौरभोद्भेद इत्यस्य प्राक्तवेति पदमुचितम् ॥
1
कश्चित्सखायं वक्ति
मयि यास्यति कृत्वावधिदिनसंख्यं चुम्बनं तथा श्लेषम् । प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी ॥ ४३२ ॥
मयीति । गन्तुकामे मय्यवधिदिनसमसंख्यं चुम्बनं तथालिङ्गनं कृत्वा प्रियया तावत्संख्याकसुरतसंपादनासमर्था रात्रिरनुशोचिता । एवं च स्त्रीणां रतेऽत्यन्तं प्रीतिरिति भावः ॥
कश्चिद्वेश्यां स्तौति
मृगमदनिदानमटवी कुङ्कुममपि कृषकवाटिका वहति । हट्टविलासिनि भवती परमेका पौरसर्वस्वम् ॥ ४३३ ॥
मृगेति । अटवी कस्तूरिकोत्पत्तिस्थानम् । कुङ्कुममपि कृषकवाटिका वहति । एवं च मृगमदकेसरयोर्वनवासशालितया न नागरिकज नसुखदत्वमिति भावः । हे वाराङ्गने, एका भवती उत्कृष्टं पुरसंबन्धिलोकसर्वखम् । सुखविशेषप्रदत्वादिति भावः । यद्वा कस्तूरी कुङ्कुमयोरन्यत्रापि सत्त्वेन साधारणतया, वारविलासिन्यास्तु | नगरमात्रवसतिशालितयाऽसाधारण्येन नागरिकात्यन्तस्पृहणीयत्वमिति भावः ॥